________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥ ८ ॥
सीउण्हखारखत्ते अग्गीलोणूस अंबिलेने हे । बुक्कंतजोणिएणं पयोयणं तेणिमं होइ ॥ १३॥
व्याख्या - इह सर्वत्र सप्तमी तृतीयाऽर्थे प्राकृतलक्षणवशात्, तथा चाह पाणिनिः प्राकृतलक्षणे- 'व्यत्ययोऽप्यासा' मित्यत्र सूत्रे सप्तमी तृतीयार्थे यथा 'तिम्रै तेसु अलंकिया पुहवी' इति, ततोऽयमर्थः - शीतोष्णक्षारक्षत्रेण, तत्र शीतं प्रतीतम् उष्णः - सूर्यादिपरितापः क्षारः- यवक्षारादिः क्षत्रं - करीषविशेषः, एतैः तथा ' अग्गिलोणूस अंविलेने हे ' इति, अग्निः - जैश्वानरः लवणं-प्रतीतम् ऊषः - ऊपरादिक्षेत्रोद्भवो लवणिमसम्मिश्र रजोविशेषः, आम्लं-काञ्जिकं स्नेहः - तैलादिः एतैश्वाचितः पृथिवीकायो भवति, इह शीतान्यम्लक्षारक्षत्रस्नेहाः | परकायशस्त्राणि, ऊपः स्वकायशस्त्रम्, उष्णश्चेह सूर्यपरितापरूपः स्वभावोष्णः तथाविधपृथिवीकायपरितापरूपो वा गृह्यते, नाग्निपरितापरूपस्तस्यानिग्रहणेनैव गृहीतत्वात्, ततः सोऽपि स्वकायशस्त्रोपादानेन परकायशस्त्रोपादानेन चान्यान्यानि स्वकायपर काय शस्त्राण्युपलक्ष्यन्ते, यथा कटुकरसो मधुररसस्य स्वकायशस्त्रमित्यादि, एतेन पृथिवीकायस्याचित्ततया भवनं चतुर्द्धा प्रतिपादितं द्रष्टव्यं तद्यथा- द्रव्यतः | क्षेत्रतः कालतो भावतश्च तत्र स्वकायेन परकायेण वा यदचित्तीकरणं तद्रव्यतः यदा तु क्षारादिक्षेत्रोत्पन्नस्य मधुरादिक्षेत्रोत्पन्नस्य च तुल्यवर्णस्य भूम्यादेः पृथिवीकायस्य परस्परं सम्पर्केणाचित्तताभवनं तदा तत् क्षेत्रतः, क्षेत्रस्य प्राधान्येन विवक्षणात्, यद्वा मा भूदपरक्षेत्रोद्भवेन पृथिवीकायान्तरेण सह मीलनं, किन्त्वन्यत्र क्षेत्रे योजनशतात्परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्रायोजन शतादूर्द्धमानीतो भिन्नाहारत्वेन शीतादिसम्पर्कतचावश्यम चित्तीभवति, इत्थं च क्षेत्रादिक्रमेणाचित्तीभवनम कायादीनामपि भावनीयं या
त्रिभिस्तैरलङ्कृता पृथ्वी ।
Jain Education International
For Personal & Private Use Only
पृथ्वीपिण्डनिक्षेप
॥ ८ ॥
www.jainelibrary.org