________________
ध्यभागे वेदितव्यः, तत्राचित्तताया मिश्रतायाश्च हेतूना शीतादीनामसम्भवात् , शेषः पुनः अचित्तमिश्रवजों वक्ष्यमाणस्थानसम्भविमिश्राचित्तव्यतिरिक्तो निराबाधारण्यभूम्यादिषु व्यवस्थितो व्यवहारतः सचित्तो वेदितव्यः।।उक्तः सचित्तपृथिवीकायः, सम्पति तमेव मिश्रमाह
खीरदुमहेढ पंथे कट्ठोले इंधणे य मीसो उ । पोरिसि एग दुग तिगं बहुइंधणमज्झथोवे य ॥ १२ ॥ ___ व्याख्या-खीरदुमहेह' त्ति क्षीरद्रुमा' वटाश्वत्थादयस्तेषामधस्तात्-तले यः पृथिवीकायः स मिश्रः, तत्र हि क्षीरद्रुमाणां माधुयेण शस्त्रत्वाभावात् कियान्सचित्तः शीतादिशस्त्रसम्पर्कसम्भवाच्च कियानचित्त इति मिश्रता, तथा पाथ ग्रामानगराद्वा बहिर्यः पृथिवकिायो वर्तते सोऽपि मिश्रो, यतस्तत्र गन्त्रीचक्रादिभिर्य उत्खातः पृथिवीकायः स कियान्सचित्तः कियांश्च शीतवातादिभिरचित्तीकृत इति मिश्रः, |'कहोले' त्ति कृष्टो हलविदारितः सोऽपि प्रथमतो हलेन विदार्यमाणः सचित्तः ततः शीतवातादिभिः कियानचित्तीक्रियते इतिमिश्रः, तथाऽऽद्रो जलमिश्रितः, तथाहि-मेघस्यापि जलं सचित्तपृथिवीकायस्योपरि निपतत् कियन्तं पृथिवीकार्य विराधयति ततो जलापृथिवीकायो मिश्र उपपद्यते, सोऽप्यन्तर्मुहूर्तादनन्तरमचित्तीभवति, परस्परशस्त्रत्वेन द्वयोरपि पृथिव्यप्काययोरचित्तीभवनसम्भवात् , यदा त्वतिप्रभूतं मेघजलं निपततितदा तज्जलं यावन्नाद्यापि स्थिति बनाति तावत् मिश्रः पृथिवीकायः, स्थितिबन्धे तु कृते सति सचित्तोऽपि सम्भाव्यते, तथा 'इन्धने' गोमयादौ मिश्रः, तथाहि-गोमयादिकमिन्धनं सचित्तपृथिवीकायस्य शस्त्रं, शस्त्रेण च परिपीड्यमानो यावन्नाद्यापि सर्वथापरिणमति तावन्मिश्रः । अत्रैवेन्धनविषये कालमानमाह-पोरिसी' त्यादि, बहिन्धनमध्यगत एकां पौरुषी यावन्मिश्रो मध्यमेन्धनसम्पृक्तस्तु पौरुषीद्विकम् अल्पेन्धनसम्पृक्तस्तु पौरुषीत्रिकं तत ऊर्द्धमचित्त इति ॥ तदेवमुक्तो मिश्रः पृथिवीकायः, साम्पतमचित्तमाह
dain Education International
For Personal & Private Use Only
www.janelibrary.org