SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पिण्डान पिण्डनियुक्तेर्मलयागरीयावृत्तिः व्याख्या-ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपिण्डस्विधा, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, तत्र मिश्रः सचित्ताचित्तरूपः, इह पृथिवीकायादिकः पिण्डत्वेनाभिधास्यते, स च पूर्व सचित्तो भवति, ततः स्वकायशस्त्रादिभिः प्रासुकीक्रियमाणः कियन्तं कालं मिश्रो भवति, तत ऊर्ध्वमचित्तः, तत एतदर्थख्यापनार्थ सचित्तमिश्राचित्ताः क्रमेणोक्ताः। 'इतो' भेदत्रयाभिधानादनन्तरम् 'एकैकस्य सचित्तादेर्भेदस्य प्रत्येक नव नव भेदा वाच्या भवन्ति ।। तानेव नव नव भेदानाह पुढवी आउक्काओ तेऊ वाऊ वणस्सई चेव । बेइंदिय तेइंदिय चउरो पंचेंदिया चेव ॥ ९॥ व्याख्या--इह पिण्डशब्दः पूर्वगाथातोऽनुवर्तमानः प्रत्येकं सम्बध्यते, तद्यथा-पृथिवीकायपिण्डोऽप्कायपिण्डस्तेजस्कायपिण्डो वायुकायपिण्डो वनस्पतिकायपिण्डो द्वीन्द्रियपिण्डस्त्रीन्द्रियपिण्डश्चतुरिन्द्रियपिण्डः पञ्चेन्द्रियपिण्डश्च ।। सम्पत्यमीषामेव नवानां भेदानां सचित्तत्त्वादिकं बिभावयिषुः प्रथमतः पृथिवीकाये भावयतिपुढवीकाओ तिविहो सच्चित्तो भीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥ १० ॥ व्याख्या-पृथिवीकायस्त्रिविधः, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, सचित्तः पुनर्द्विधा, तद्यथा-निश्चयतो व्यवहारतश्च ॥ एतदेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यं प्रतिपादयतिनिच्छयओ सच्चित्तो पढविमहापव्वयाण बहुमज्झे । अचित्तमीसवज्जो सेसो ववहारसच्चित्तो ॥ ११ ॥ व्याख्या-निश्चयतः सचित्तः पृथिवीकायो धर्मादीनां पृथिवीनां मेर्वादीनां महापर्वतानामुपलक्षणमेतत् तेन टङ्कादीनां च, बहुम Jain Education International For Personal & Private Use Only nelbaryong
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy