SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ इक्को उ असब्भावे तिण्हं ठवणा उ होइ सब्भावे । चित्तेसु असब्भावे दारुअलेप्पोवले सियरो॥७॥ (भा. व्याख्या-एकोऽक्षो वराटकोऽङ्गलीयकादिर्वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना 'असद्भावे' असद्भावविषया, अ. सद्भांचिकीत्यर्थः, तत्र पिण्डाकृतेरनुपलभ्यमानत्वात् , अक्षादिगतपरमाणुसङ्घातस्य चाविवक्षणात् । यदा तु त्रयाणामक्षाणां वराटकानामङ्गली कायकादीनां वा परस्परमेकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना 'सद्भावे' सद्भाविकी, तत्र पिण्डाकृतरुपलभ्यमानत्वात् , त्रयाणांचेत्युपलक्षणं तेन द्वयोरपि बहूनां चेत्यपि द्रष्टव्यं । तथा 'चित्रेषु' चित्रकर्मसु यदैकविन्द्वालिखनेन पिण्डस्थापना तदा साऽप्यसद्भावे, यदा तु चित्रकर्मस्वपि अनेकबिन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसलगतात्मकपिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाकृतेस्तत्र दर्शनात् । तथा दारुकलेप्योपलेषु पिण्डाकृतिसम्पादनेन या पिण्डस्य स्थापना स 'इतरः ' सद्भावस्थापनापिण्डः, तत्र पिण्डाकारस्य दर्शनात् ॥ तदेविमुक्तः स्थापनापिण्डः,सम्पतिद्रव्यपिण्डस्यावसरः, स च द्विधा-आगमतो नोआगमतश्च, तत्राऽऽगमतः पिण्डशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः अनुपयोगो द्रव्य' मिति वचनात् , नोआगमतस्त्रिधा, तद्यथा-ज्ञशरीरद्रव्यपिण्डः भव्यशरीरद्रव्यपिण्डः ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यपिण्डश्च, तत्र पिण्डशब्दार्थज्ञस्य यच्छरीरं सिद्धशिलातलादिगतमपगतजीवितं तद् भूतपिण्डशब्दार्थपरिज्ञानकारणत्वात् ज्ञशरीरद्रव्यपिण्डः, यस्तु बालको नेदानीमवबुध्यते पिण्डशब्दार्थम् अथ चावश्यमायत्यां तेनैव शरीरेण परिवर्द्धमानेन भोत्स्यते स भावपिण्डशब्दार्थपरिज्ञानकारणत्वाद् भव्यशरीरद्रव्यपिण्डः ॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यपिण्डं नियुक्तिकृदाह तिविहो उ दव्वपिंडो सच्चित्तो मीसओ अचित्तो य । एक्केकस्स य एत्तो नव नव भेआ उ पत्तेयं ॥८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy