SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीपिण्ड तव्रतानां प्रयोजनं न गृहस्थानाम्, अतः स्वभावभेदात्तयोरपि पृथगुपन्यासः सार्थक इति ॥ तदेवं नामपिण्डो नियुक्तिकृतोपदर्शितो भा- नियुक्तिः ष्यकृता सपपञ्चव्याख्यातः, साम्पतं यत्पूर्व प्रतिज्ञातं नियुक्तिकृता-उवणापिंडं अतो वोच्छं' तत्समर्थयमानः स एवाह. अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा । सब्भावमसब्भावं ठवणापिंडं वियाणाहि ॥ ७ ॥ व्याख्या-सत इव विद्यमानस्येव भावः सत्ता-सद्भावः, किमुक्तं भवति?-स्थाप्यमानस्येन्द्रादेरनुरूपाङ्गोपाङ्गचिहवाहनाहरणादिपरिकररूपो य आकारविशेषो यद्दर्शनात्साक्षाद्विद्यमान इवेन्द्रादिलक्ष्यते स सद्भावः, तदभावोऽसद्भावः, तत्र सद्भावमसद्भावंचाश्रित्य 'अक्षे| चन्दनके कपर्दे वराटके वाशब्दोऽङ्गलायकादिसमुच्चयार्थः, उभयत्रापि च जातावेकवचनं, तथा 'काष्ठे' दारुणि 'पुस्ते' ढिउल्लिकादौ, वाशब्दो केप्यपाषाणसमुच्चये, चित्रकर्मणि वा या पिण्डस्य स्थापना साक्षादिः काष्ठादिष्वाकारविशेषो वा पिण्डत्वेन स्थाप्यमानः स्थापनाः पिण्ड:, इयमत्र भावना-यदा काष्ठे लेप्ये उपळे चित्रकर्माणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डाकारः साक्षाद्विधमान इवालिख्यते, यद्वा अक्षाः कपर्दका अङ्गुलीयकादयो वा एकत्र संश्लेष्य पिण्डत्वेन स्थाप्यन्ते यथेष पिण्डः स्थापित इति तदा तत्र पिण्डाकारस्योपलभ्यमानत्वात्सद्भावत पिण्डस्थापना, यदा त्वेकस्मिन्नक्षे वराटकेऽङ्गालीयके वा पिण्डत्वेन स्थापना एष पिण्डो मया स्थापित इति तदा तत्र पिण्डाकारस्यानुपल-11 भ्यमानत्वात् , अक्षादिगतपरमाणुसडनतस्य चाविवक्षणादसद्भवतः पिण्डस्थापना, चित्रकर्मण्यपि यदा एकबिन्द्वालिखनेन पिण्डस्थापना यथैष पिण्ड आलिखित इति विवक्षा तदाप्रभूतद्रव्यसंश्लेषाकारादर्शनादसद्भावपिण्डस्थापना, यदा पुनरेकबिन्द्वालिखनेऽपि एष मया गुडपिण्ड ओदनपिण्डः सक्तुपिण्डो वाऽऽलिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना ॥ अमुमेव सद्भावासद्भावस्थापनाविभागं भाष्यकृदुपदर्शयति dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy