________________
व्याख्या-इदं पिण्ड इति नाम अन्यद्वा गौणसमयातिरिक्तं' गौणसमयजविभिन्नमपिशब्दसूचितमस्ति, तदेव दर्शयति-यथा | कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते, तद्धि न गौणं प्रभूतद्रव्यसंश्लेषासम्भवाच्छरीरावयवसङ्घातस्य चाविवक्षणात् नापि समयकृतम्, अत इदमुभयांतिरिक्तमिति । ननु समयकृतोभयातिरिक्तयोन कश्चित्परसरं विशेष उपलभ्यते, उभयत्राप्यन्वर्थविकलवादात्माभिप्रायकृतत्वाविशेषाच, तत्कथं द्वयोरुपादानं ?, साङ्केतिकमित्येवोच्यताम् , एवं हि द्वयोरपि ग्रहणं भवति, तदयुक्तम् , अभिप्रायापरिज्ञानाद, इह हि यल्लौकिक नाम साङ्केतिकं तत्पृथग्जनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समय एव साङ्केतिकं तत्सामयिका एव न पृथगजनाः ॥ तथा चाह भाष्यकृदतुल्लेऽवि अभिप्पाए समयपसिद्धं न गिण्हए लोओ । जं पुण लोयपसिद्ध तं सामइया उवचरन्ति ॥ ६ ॥ (भा०)
व्याख्या-इहाभिप्रायशब्देन पदैकदेशे पदसमुदायोपचारादभिमायकृतत्वमुच्यते, तत्रायमर्थ:-अभिप्रायेण-इच्छामात्रेण कृतं न तु| वस्तुबलमवृत्तमभिप्रायकृतं, तस्य भावोऽभिप्रायकृतत्वं साङ्केतिकत्वमित्यर्थः, तस्मिस्तुल्येऽपि-समानेऽपि, आस्तामसमाने इत्यपिशब्दार्थः, समयप्रसिद्धं 'लोक' पृथगजनरूपो न गृह्णाति-न समयप्रसिद्धन साङ्केतिकेन नाम्ना व्यवहरति, न खलु पृथग्जनो भोजनादिकं समुद्देशादिना समयप्रसिद्धेन साङ्केतिकेन नाम्ना व्यवहरति, यत्पुनलोकप्रसिद्धं तत्पृथग्जनाः सामयिकाचो पचरन्ति, तत इत्थं समयकृतोभया.. |तिरिक्तयोः स्वभावभेदाद् तद्वयोरपि पृथगुपादानमर्थवत्, एतेन गौणोभयकृतयोरपिस्वभावभेदसूचनेन पृथगुपादानं सार्थकमुपपादितं द्रष्टव्यं, | तथाहि-यद्यपि गौणमुभयकृतं चान्वर्थयुक्तत्वेनाविशिष्टं, तथापि यद्गौणं तत्पृथग्जनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समयमसिद्धं गौणं तत्सामयिका एव न पृथग्जनाः, तेषां तेन प्रयोजनाभावात् , समयप्रसिद्धेन हि नाम्ना गौणेनापि यथोक्तसमयपरिपालननिष्पन्नचेतसां गृही-18
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org