________________
श्रीपिण्ड
क्ति
व्याख्या–यस्य पुनः कस्यचित्पिण्डपातार्थतया-पिण्डपात:-आहारलाभस्तदर्थतया साधोहपतिगृहं प्रविष्टस्य सतो भवति आ स- म्माप्तिः, 'गुडओअणपिंडेहि ति 'व्यत्ययोऽप्यासा' मिति प्राकृतलक्षणवशात्पष्टयर्थे तृतीया, ततोऽयमों-गुडौदनपिण्डओगुंडपिण्डस्यौदन | पिण्डस्य चेत्यर्थः, गुडौदनग्रहणमुपलक्षणं, तेन सक्तुपिण्डादेश्च या सम्माप्तिस्तं गुडपिण्डादिकं तदुभयपिण्डं गुणनिष्पन्नसमयप्रसिद्धपिण्डशब्दवाच्यमुक्तवन्तस्तीर्थकरगणधराः, इहापि नामनामवतोरभेदोपचारादेवं गाथायां निर्देशः, उपचाराभावे त्वयं भावार्थ:-तद्विषयं पिण्ड इति नाम उभयजम् , अन्वर्थयुक्तत्वात्समयप्रसिद्धत्वाचेति । सम्पत्युभयातिरिक्तं सामान्यतो नाम प्रतिपादयति___ उभयाइरित्तमहवा अन्नं पि हु अस्थि लोइयं नाम । अत्ताभिप्पायकयं जह सीहगदेवदत्ताई ॥ ४ ॥ (भा०)
व्याख्या-'अथवेति नामप्रकारान्तरताद्योतकः, 'उभयातिरिक्तं' गौणसमयजविभिन्नम्, अन्यदप्यस्ति 'लौकिक' लोके प्रसिद्धमाकात्माभिप्रायकृतं नाम, अनुभयजमिति भावार्थः, तदेवोदाहरणेन समर्थयमान आह-यथा सिंहकदेवदत्तादि, आदिशब्दाद्यज्ञदत्तादिपरिग्रहः
इदं हि सिंहदेवदत्तादिकं नाम शौर्यक्रौर्यादिगुणनिबन्धनोपचाराभावे देवा एनं देयासुरिति व्युत्पत्त्यर्थासम्भवे च यस्य कस्यचिदात्माऽभिमायतः पित्रादिभिर्दीयमानं न गौणमन्वविकलत्वान्नापि समयप्रसिद्धमत उभयातिरिक्तमिति, एवं पिण्ड इत्यपि नाम उभयातिरिक्तं भावनीयं ।।। ननु पिण्ड इति नाम नियुक्तिगाथायामुभयातिरिक्तं नोपन्यस्तं, तत्कथं भाष्यकृता व्याख्यायते, तदयुक्तं, नोपन्यस्तमित्यसिद्धेः, अपिशब्देन तत्र सूचितत्वात् , तथा चाह भाष्यकृत्
गोण्णसमयाइरितं इणमन्नं वाऽविसइयं नाम । जह पिंडउत्ति कीरइ कस्सइ नाम मणूसस्स ॥ ५॥ (भा०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org