SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ उदाहरणान्यपि क्रियानिमित्तान्येव दर्शयति-तं पुण' इत्यादि, तत्पुनर्गौणं नाम क्षपण इत्यादि, तत्र क्षपयति कौणीति क्षपण:-क्षपकर्षिः, इह क्षपकर्षेः क्षपणलक्षणां क्रियामधिकृत्य क्षपण इति नाम प्रवृत्तमतो गौणम्, एवं शेषेष्वप्युदाहरणेषु भावना कार्या, तथा ज्वलतीति ज्वलनो-वैश्वानरः, तपतीति तपनो-रविः, पवते पुनातीति वा पवनो-वायुः, प्रदीप्यते इति प्रदीप दीपकलिका, चकारोऽन्येषामप्येवंजातीयानामुदाहरणानां समुच्चयार्थः । तदेवं सामान्यतो गौणं नाम व्याख्यातं, सम्पति पिण्ड इति नाम गौणं समयकृतं च व्याचिख्यासुराहपिंडण बहुदव्वाणं पडिवक्खेणावि जत्थ पिंडक्खा । सो समयकओ पिंडो जह सुत्तं पिंडपडियाई ॥२॥ (भा०) व्याख्या-बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणां यत् पिण्डनम्-एकत्र संश्लेषस्तत्र पिण्ड इति नाम प्रवर्त्तमानं गौणमिति शेषो, व्युत्पत्तिनिमित्तस्य तत्र विद्यमानत्वात् , तथा प्रतिपक्षेणाप्यत्र प्रकरणात्मतिपक्षशब्दः कठिनद्रव्यसंश्लेषाभाववाची, ततो ऽयमर्थः-यत्र प्रतिपक्षेणापि-बहूनां द्रव्याणां मीलनमन्तरेण तावत्पिण्ड इति नाम प्रवर्तत एव, न काचित्तत्र व्याहतिरित्यपिशब्दार्थः, समकायप्रसिद्धया 'पिण्डाख्या ' पिण्ड इति नाम, स पिडाख्यावान्नामपिण्डः समयकृत इत्युच्यते, तत्र नामनामव तोरभेदोपचारादेवं निर्देशः, उपचाराभावे त्वयमर्थः-तत्र वस्तुनि तत्पिण्ड इति नाम समयकृतमिति, एतदेव दर्शयति-'जह सुत्तं पिंडपडियाई' यथेत्युपदर्शने पिण्डेति पिण्डपातग्रहणं, तत एवं गाथायां निर्देशो द्रष्टव्यः-पिंडवायपडियाए ' इत्यादि, आदिशब्दात् 'पविढे समाणे ' इत्यादिसूत्रपरिग्रहः, तच्च प्रागेव दर्शितम् , इयमत्र भावना-अत्र सूत्रे प्रभूतकठिनद्रव्यपरस्परसंश्लेषाभावेऽपि पानीये पिण्ड इति नामान्वर्थरहितं समयप्रसिद्धया प्रयुज्यते, अत इदं समयजमभिधीयते इति ॥ सम्पत्युभयजं पिण्ड इति नाम दर्शयति जस्स पुण पिंडवायट्ठया पविठ्ठस्स होइ संपत्ती। गुडओयणपिंडेहिं तं तदुभयपिंडमाइंसु ॥ ३ ॥ (भा०) dain Education Interna For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy