________________
श्रीपिण्ड
नियुक्ति
इति ना
षया पानीयेऽपि पिण्ड इति नाम प्रयुज्यते तदा समयजं, लोके हि कठिनद्रव्याणामेकत्र संश्लेषे पिण्ड इति प्रतीतं, न तु द्रवद्रव्यसङ्घाते,ततः पिण्डनं पिण्ड इति व्युत्पत्त्याघटनान गौणम् , अथ च समये प्रसिद्धं, तथा च आचाराङ्गे द्वितीये श्रुतस्कन्धे प्रथमे पिण्डैषणाभिधानेअध्ययने सप्तमोद्देशकसूत्रे से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे जं पुण पाणगं पासेन्जा, तंजहातिलोदगं वा तुसोदगं वा' इत्यादि, अत्र पानीयमपि पिण्डशब्देनाभिहितं, ततः पानीये पिण्ड इति नाम समयप्रसिद्धं, न चान्वर्थयुक्तमिति समयजमित्युच्यते, यदा पुनर्भिक्षुर्भिक्षुकी वा भिक्षार्थ प्रविष्टा सती गृहपतिकुले गुडपिण्डमोदनपिण्डं सक्तुपिण्डं वा लभते तदा पिण्डशब्दस्तत्र प्रवर्त्तमान उभयजः, समयप्रसिद्धत्वादन्वर्थयुक्तत्वाच्च, यदा पुनः कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते न च शरीरावयवसङ्घातविवक्षा तदा तदनुभयजं ॥ सम्पति गाथाक्षराणि विवियन्ते-यत्पिण्ड इति नाम गौणं, यद्वा समयकृतं-समयप्रसिद्धं, यद्वा भवेत्तदुभयकृतम् , उभयं-गुणः समयश्च तच्च तदुभयं च तदुभयं तेन कृतं तदुभयकृतं, समयमसिद्धमन्वर्थयुक्तं चेत्यर्थः, अपिशब्दाद्यद्वाऽनुभयजमन्वर्थविकलं समयाप्रसिद्धं च तन्नामपिण्डं ब्रुवते तीर्थकरगणधराः, अत ऊर्च स्थापनापिण्डमहं वक्ष्ये ।। एनामेव गाथां भाष्यकृत्सप्रपञ्च व्याचिख्यासुः प्रथमं गौणं नाम व्याख्यानयनाहगुणनिप्फन्नं गोण्णं तं चेव जहत्थमत्थवी बेति । तं पुण खवणो जलनो तवणो पवनो पईवो य ॥१॥ (भा०)
व्याख्या-गुणेन परतन्त्रेण व्युत्पत्तिनिमित्तेन द्रव्यादिना यन्निष्पन्नं नाम तद्रौणं, यच्च (स्य) गुणैर्निष्पन्नं तद्गुणात्तस्मिन् वस्तु न्यागतमिति " तत आगत " इत्यनेनाणप्रत्ययः, तदेव च गौणं नाम · अर्थविदः' शब्दार्थविदो यथार्थ बुवते, गौणं च नाम विधा, तद्यथा-द्रव्यनिमित्तं गुणनिमित्तं क्रियानिमित्तं च, एतच्च प्रागेव भावितं, तत्र पिण्ड इति नाम क्रियानिमित्तं, पिण्ड नमिति व्युत्पत्तेः, तत
नाम गौणं,'
तदुभयकृतं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org