________________
च्छत्यगच्छति वा गोपिण्डे गोशब्दस्य प्रवृत्तिः, एवं सर्वेष्वपि जातिशब्देषु नामसु व्युत्पत्तिनिमित्तवत्सु भावनीयं, ये तु जातिशब्दा व्युत्पत्तिरहिता यथाकथञ्चिज्जातिमत्सु रूढिमुपागतास्तेषु व्युत्पत्तिनिमित्तमेव नास्तीति कुतस्तत्र जावेव्युत्पत्तिनिमित्तत्वप्रसङ्गः?, तस्माज्जातिः परतन्त्रापि न शब्दस्य व्युत्पत्तिनिमित्तमिति न सा गुणग्रहणेन गृह्यते, ये तु गोत्वविशिष्टा गोमानित्यादयो जातिव्युत्पत्तिनिमित्ता न ते नामरूपा इति न तैर्व्यभिचारः, ततो गुणादागतं गौणं, व्युत्पत्तिनिमित्तं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्तं नाम तद्रौणनामेति भावार्थः, एतदेव च नाम लोके यथार्थमित्याख्यायते, तथा समयजं यदन्वर्थरहितं समय एव प्रसिद्धं यथौदनस्य प्राभृतिकेति नाम, उभयज यद्गुणनिष्पन्नं समयप्रसिद्धं च, यथा धर्मध्वजस्य रजोहरणमिति नाम, इदं हि समयपसिद्धमन्वर्थयुक्तं च, तथाहि-बाह्यमाभ्यन्तरं च रजो हियते अनेनेति रजोहरणं, तत्र बाह्यरजोऽपहारित्वमस्य सुप्रतीतम् , आन्तररजोऽपहरणसमर्थाश्च परमार्थतः संयमयोगाः, तेषां च कारणमिदं धर्मलिङ्गमिति कारणे कार्योपचाराद्रजोहरणमित्युच्यते, उक्तं च-"हेरइ रओ जीवाणं बज्झं अभितरं च जं तेणं । स्यहरणंति पवुच्चइ कारणकज्जोवयाराओ ॥१॥ संयमजोगा इत्थं रओहरा तेसि कारणं जेणं । रयहरणं उवयारा भन्नइ तेणं रओ कम्मं ॥२॥" अनुभयज यदन्वर्थरहितं समयाप्रसिद्धं च, यथा कस्यापि पुंसः शौर्यक्रौर्यादिगुणासम्भवेनोपचाराभावे सिंह इति नाम, यद्वा देवा एनं देयासुरिति व्युत्पत्तिनिमित्तासम्भवे देवदत्त इति नाम । एवं पिण्ड इति वर्णावलीरूपमपि नाम गौणादिभेदाचतुर्दा, तत्र यदा बहूनां सजातीयानां विजा तीयानां वा कठिनद्रव्याणामेकत्र पिण्डने पिण्ड इति नाम प्रवर्तते तद्गौणं, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमानत्वात्, यदा तु समयपरिभा| १ हरति रजो जीवानां बाह्यमाभ्यन्तरं च यत्तेन । रजोहरणमिति प्रोच्यते कारणे कार्योपचारात् ॥१॥ संयमयोगा अत्र रजोहरकास्तेषां कारणं येन । रजोहरणमुपचारात् भण्यते तेन रजः कर्म ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org