________________
श्रीपिण्ड
चतुर्णा निक्षेपस्य-चतुष्करूपस्य निक्षेपस्य नियमेन-अवश्यंतया सम्भवोऽस्ति, ततस्तमेव पदककमिह निक्षिपामि-पटकरूपमेव निक्षेपं प्ररू- नियुक्तिः पयामि, तस्मिन् प्ररूपिते तस्यापि चतुष्करूपस्य निक्षेपस्य प्ररूपितत्वभावादिति भावार्थः ॥ प्रतिज्ञातमेव निर्वाहयति
नाम ठवणापिंडो दवे खेत्ते य काल भावे य। एसो खलु पिंडस्स उ निक्खेवो छविहो होइ ॥ ५ ॥ ___ व्याख्या-'नाम' ति नामपिण्डः स्थापनापिण्डः 'द्रव्ये ' द्रव्यविषयः पिण्डो द्रव्यपिण्डः, द्रव्यस्य पिण्ड इत्यर्थः, तथा 'क्षेत्रे | क्षेत्रस्य पिण्डः, एवं कालपिण्डो भावपिण्डश्च, 'एषः' अनन्तरोक्तः खलु 'पिण्डस्य' पिण्डशब्दस्य निक्षेपो भवति ॥ तत्र नामपिण्डस्य व्याख्यानाय स्थापनापिण्डस्य तु सम्बन्धनायाह
गोण्णं समयकयं वा जं वावि हवेज्ज तदुभएण कयं । तं बिति नामपिंडं ठवणापिंडं अओ वोच्छं ॥६॥।
व्याख्या-इह यत् पिण्ड इति वर्णावलीरूपं नाम स नामपिण्डः, नाम चासौ पिण्डश्च नामपिण्ड इति व्युत्पत्ते, नाम च चतुओं, तद्यथा-गौणं समयजं तदुभयजमनुभयजं च, तत्र गुणादागतं गौणम् , अथ कोऽसौ गुणः ? कथं च तत आगतम् ?, उच्यते, इह शब्दस्य व्युत्पत्तिनिमित्तं योऽर्थो यथा ज्वलनस्य दीपनं 'ज्वल दीप्ता' विति वचनात स गुणः, गुणश्वेह परतत्रो विवक्षितो न पारिभाषिको रूपादिः, तेन यद्यच्छब्दस्य वस्तुनि प्रवर्त्तमानस्य व्युत्पत्तिनिमित्तं द्रव्यं गुणः क्रिया वा स गुण इत्यभिधीयते, तत्र द्रव्यं व्युत्पत्तिनिमित्तं शृङ्गी दन्ती विषाणीत्यादौ, गुणो जातरूपं सुवर्ण स्वादुरसा श्वेत इत्यादी, क्रिया तपनः श्रमणो दीपो हिंस्रो ज्वलन इत्यादी, जातिश्च| नाम्नो व्युत्पत्तिनिमित्तं न भवति, किन्तु प्रवृत्तिनिमित्तं यथा गोशब्दस्य गोजातिः, तथाहि-गोशब्दस्य गमनक्रिया व्युत्पत्तिनिमित्तं, न गोत्वं, गच्छतीति गौरिति व्युत्पत्तेः, केवलमेकार्थसमवायवलाद्मनक्रियया खुरककुदलालसानादिमत्त्वं प्रवृत्तिनिमित्तमुपलक्ष्यते इति ग-18
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International