SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ म्पदायतः सविस्तरमाधिगतो भवति नाप्यधिगतो विस्मृतिपथमुपगतस्तत्र सविस्तरं निक्षेपो वक्तव्य इति न्यायप्रदर्शनार्थ षद्ककग्रहणं, तथा चोक्तं-"जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थ वि य न जाणिज्जा चउक्कयं निखिवे तत्थ"॥१॥ ततश्चैतदत्रोक्तं भवति-यदि षट्को निक्षेपः सम्यगधिगतो भवति अधिगतोऽपि च न विस्मृतस्तदा षट्करूपो निक्षेपः कर्त्तव्यः, अन्यथा तु नियमतश्चतुकरूप इति । एवं च निक्षेपं कृत्वा तस्य पिण्डस्य प्ररूपणा कर्त्तव्या, येन पिण्डेनेहाधिकारः स पिण्डः प्ररूपणीय इति भावार्थः । इदमेव | च नामादिभेदोपन्यासेन व्याख्यायाः फलं यदुत यावन्तो विवक्षितशब्दवाच्या पदार्था घटन्ते तान् सर्वानपि यथास्वरूपं वैविक्त्येनोपदर्ययेन केनचिन्नामाद्यन्यतमेन प्रयोजनं स युक्तिपूर्वमधिक्रियते शेषास्त्वपाक्रियन्ते तथा चोक्तम्-'अप्रस्तुतार्थापाकरणात्मस्तुतार्थव्यायुरणाच्च नि क्षेपः फलवानिति, इह 'चतुष्कः पदको वा निक्षेपः कर्तव्य' इत्युक्तं तत्र नानिर्दिष्टस्वरूपं चतुष्कं पदकं वा निक्षेपं शिष्याः स्वयमवावगअन्तुमीशास्ततोऽवश्यं तत्स्वरूपं निर्देष्टव्यं, तत्र षट्के निर्दिष्टे तदन्तर्गतत्वाचतुष्कोऽर्थानिर्दिष्टो भवति, ततः स एव षट्कनिक्षेपोनिर्दिश्यते इति, एतदृष्टान्तपुरस्सरं प्रतिपिपादयिषुराह कुलए उ चउब्भागस्स संभवो छक्कए चउण्डं च । नियमण संभवो अत्थि छक्कगं निक्खिवे तम्हा ॥४॥ व्याख्या-यथा 'कुलके' चतुःसेतिकाप्रमाणे चतुर्भागस्य-सेतिकाप्रमाणस्य सम्भवो-विद्यमानताऽवश्य भाविनी, एवं षट्के निक्षेपे १ यत्र च यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् । यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्र ।। १ ।। Jain Education International For Personal & Private Use Only avitaw.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy