________________
श्रीपिण्ड- पिंड निकाय समूहे संपिंडण पिंडणा य समवाए । समुसरण निचय उवचय चए य जुम्मे य रासी य ॥ २ ॥ नियुक्तिः ॥२॥ __ व्याख्या-एते सर्वेऽपि सामान्यतः पिण्डशब्दस्य पर्यायाः, विशेषापेक्षया तु कोऽपि कापि रूढः, तत्र पिण्डशब्दो गुडपिण्डादिरूपे ।
सङ्घाते रूढो, निकायशब्दो भिक्षुकादिसङ्घनते, समूहशब्दो मनुष्यादिसमुदाये, संपिण्डनशब्दः सेवादीनां खण्डपाकादेश्च परस्परं सम्यक्संयोगे, पिण्डनाशब्दोऽपि तत्रैव, केवलं मीलनमात्रे संयोगे, समवायशब्दो वणिगादीनां सङ्घाते, समवसरणशब्दः तीर्थकृतः सदेवमनुजासुराणां पर्षदि, निचयशब्दः सूकरादिसङ्घाते, उपचयशब्दः पूर्वावस्थातः प्रचुरीभूते सङ्घातविशेषे, चयशब्द इष्टिकारचनाविशेषे, युग्मशब्दः पदार्थद्वयसङ्घाते, राशिशब्दः पूगफलादिसमुदाये, तदेवमिह यद्यपि पिण्डादयः शब्दाः लोके प्रतिनियत एव सङ्घातविशेषे रूढाः,तथाऽपि|| सामान्यतो यद् पुत्पत्तिनिमित्तं सातत्वमात्रलक्षणं तत्सर्वेषामप्यविशिष्टमितिकृत्वा सामान्यतः सर्वे पिण्डादयः शब्दा एकार्थिका उक्ताः ततो न कश्चिद्दोषः। तदेवं पिण्डशब्दस्य पर्यायानभिधाय सम्पति भेदानाचिख्यासुराह
पिंडस्स उ निक्खेवो चउक्कओ छक्कओ व कायव्यो। निक्खेवं काऊणं परूवणा तस्स कायव्वा ॥३॥
व्याख्या-पिण्डस्य' प्रागुक्तशब्दार्थस्य तुशब्दः पुनरर्थे, स च निक्षेपशब्दानन्तरं योज्यो, 'निक्षेपो' नामादिन्यासरूपः, ॥२ ॥ का पुनश्चतुष्ककः षट्कको वा कर्तव्यः, तत्र चत्वारः परिमाणमस्येति चतुष्कः, “सङ्ख्याडतेश्वाशत्तिष्टेः कः" इति का प्रत्ययः, ततो
भूयः स्वार्थिककपत्ययविधानाच्चतुष्ककः, एवं षट्ककोऽपि वाच्यः, इह यत्र वस्तुनि निक्षेपो न सम्यग् विस्तरतोऽवगम्यतेऽवगतो वा|| विस्मृतिपथमुपगतस्तत्राप्यवश्यं नामस्थापनाद्रव्यभावरूपश्चतुष्कको निक्षेपः कर्तव्य इति प्रदर्शनार्थ चतुष्ककग्रहणं, यत्र तु तथाविधगुरुस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org