SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ |षणा ग्रासैषणा च, तत्र गवेषणे-अन्वेषणे एषणा-अभिलाषो गवेषणैषणा, एवं ग्रहणैषणा ग्रासैपणाऽपि भावनीये, तत्र गवेषणैषणा उद्मोत्पादनाविषयति तद्हणेनैव गृहीता द्रष्टव्या, ग्रासैषणा त्वभ्यवहारविषया, ततः संयोजनादिग्रहणेन सा गृहीष्यते, तस्मादिह पारि शेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टव्या, ग्रहणैषणाग्रहणेन च ग्रहणैषणागता दोषा वेदितव्याः, तथाविवक्षणात् , ततोऽयं भावार्थःउत्पादनादोषाभिधानानन्तरं ग्रहणैषणागता दोषाः शङ्कितम्रक्षितादयोऽभिधातव्याः, ततः संयोजना वक्तव्या, तत्र संयोजन संयोजनागृद्ध्या रसोत्कर्षसम्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनं, सा द्रव्यभावभेदाद् द्विधा, वक्ष्यति च-'दन्वे भावे संयोजणा य' इत्यादि, ततः प्रमाणं कवलसङ्ख्यालक्षणं वक्तव्यं, चकारः समुच्चये, स च भिन्नक्रमत्वात्कारणशब्दानन्तरं द्रष्टव्यः, ततः, 'इंगाल धूम त्ति अङ्गारदोषो धूमदोषश्च यथा भवति तथा वक्तव्यं, तदनन्तरं 'कारण त्ति यैः कारणैराहारो यतिभिरादीयते यैस्तु न तानि कारणानि । च वक्तव्यानि, सूत्रे च विभक्तिलोप आपत्वात् , तदेवम् 'अष्टविधा' अष्टमकारा अष्टभिराधिकारः सम्बद्धेति भावार्थः, पिण्डनियुक्ति:पिण्डैषणानियुक्तिः ॥ स्यादेतद् , एतेऽष्टावप्यर्थाधिकाराः किं कुतश्चित्सम्बन्धविशेषादायाताः उत यथाकथ श्चिद्वक्तव्याः,? उच्यते, सम्बन्धविशेषादायाताः, तथाहि-पिण्डैषणाऽध्ययननियुक्तिवक्तुमुपक्रान्ता, पिण्डैषणाऽध्ययनस्य चत्वार्यनुयोगद्वाराणि, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयश्च, तत्र नामनिष्पन्ने निक्षेपे पिण्डैषणाऽध्ययनमिति नाम, ततः पिण्ड इति अध्ययनमिति च व्याख्येयं, तत्राध्ययनमिति प्रागेव द्रुमपुष्पिकाऽध्ययने व्याख्यातम्, इह तु पिण्ड इति व्याख्येयं, तत एव एषणा, एषणा च गवेषणैषणा ग्रहणैषणा ग्रासैषणा च, गवेपणैषणादयश्च उद्मादिविषयास्ततस्ते वक्तव्याइत्यष्टौ पिण्डादयोऽर्थाधिकाराः ॥ तत्र प्रथमतः पिण्ड इति व्याख्यायते, व्याख्या च | तत्त्वभेदपर्यायैः, अतः प्रथमतः पिण्डशब्दस्य पर्यायानभिधित्सुराह मागेव द्रुमपुष्पिकाऽध्ययन नामनिष्पन्ने निक्षेपे पिण्डैपणाऽध्ययनाता, पिण्डेपणाऽध्ययनस्य चत्वायायय विद्वक्तव्याः, ? उच्यते, सम्ब in Education inter ne For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy