________________
पिण्डनियुतेर्मलयगिरीयावृत्ति
एषणायांशङ्कित. दोषः
॥१४७॥
उग्गमदोसा सोलस आहाकम्माइ एसणादोसा । नव मक्खियाइ एए पणवीसा चरिमए सुद्धो ॥ ५२२ ॥
व्याख्या-आधाकर्मादयः षोडश उद्गमदोषाः, नव च म्रक्षितादय एषणादोषाः, एते मिलिताः पञ्चविंशतिः, चरमे तु भङ्गे न ग्रहणे न भोजने इत्येवंरूपे वर्तमानो यतिः शुद्धः, यत इहाशुद्धमपि छद्मस्थपरीक्षया निःशङ्कितं गृहीतं शुद्धं भवतीति । एतदेवोप- दर्शयतिछउमत्थो सुयनाणी उवउत्तो उज्जुओ पयत्तेणं । आवन्नो पणवीसं सुयनाणपमाणओ सुद्धो ॥ ५२३ ॥
व्याख्या-छद्मस्थः श्रुतज्ञानी 'ऋजुकः' मायारहितः 'प्रयत्नेन ' यथाऽऽगममादरेण गवेषयन् पञ्चविंशतेर्दोषाणामन्यतमदोषमापनोऽपि 'श्रुतज्ञानप्रमाणतः' आगमप्रामाण्येन शुद्धः। एनमेवार्थ स्पष्टयति
ओहो सुओवउत्तो सुयनाणी जइवि गिण्हइ असुद्धं । तं केवलीवि भुंजइ अपमाण सुयं भवे इहरा ॥ ५२४ ॥
व्याख्या-ओहो' इत्यत्र प्रथमा तृतीयार्थे, तत ओघेन-सामान्येन 'श्रुते' पिण्डनियुक्त्यादिरूपे आगमे उपयुक्तः संस्तदनुसारेण कल्प्याकल्प्यं परिभावयन् श्रुतज्ञानी यद्यपि कथमप्यशुद्ध गृह्णाति तथापि तत् 'केवल्यपि ' केवलज्ञान्यपि भुते, इतरथा श्रुतज्ञानमप्रमाणं भवेत् , तथाहि-छद्मस्थः श्रुतज्ञानबलेन शुद्धं गवेषयितुमीष्टे, न प्रकारान्तरेण, ततो यदि केवली श्रुतज्ञानिना यथाऽऽगमं गवेपितमप्यशुद्धमितिकृत्वा न भुञ्जीत ततः श्रुतेऽनाश्वासः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतज्ञानस्य चाप्रामाण्ये सर्वक्रियाविलोपप्रसङ्गः, श्रुतमन्तरेण छमस्थानां क्रियाकाण्डस्य परिज्ञानासम्भवात् । ततः किम् ? इत्याह
ܐ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org