SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ वक्तव्या, तया चाधिकारोऽप्रशस्तया, विण्डदोषाणां वक्तुं प्रक्रान्तत्वात् , सा च शङ्कितादिभेदादशप्रकारा, ततस्तानेव शन्तिादीन भेदान् प्रदर्शयति संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥५२॥ व्याख्या-शडिन्त' सम्भाविताधाकर्मादिदोषं 'प्रक्षिप्तं ' सचित्तपृथिव्यादिनाऽवगुण्डितं 'निक्षिप्तं' सचित्तस्योपरि स्थापित पिहितं ' सचित्तेन स्थगित 'संहृतम्' अन्यत्र क्षिप्तं 'दायक ' दायकदोषदुष्टम् 'उन्मिश्रितं' पुष्पादिसम्मिश्रम् 'अपरिणतम् ' अपासुकीभूतं, लिप्तं, 'छर्दितं' भूमावा वेडितं, एते दश एषणादोषा भवन्ति । तत्र शङ्कितपदं व्याचिख्यासुराहसंकाए चउभंगो दोसुवि गहणे य भंजणे लग्गो । जं संकियमावन्नो पणवीसा चरिमए सुद्धो ॥ ५२१ ॥ व्याख्या-'शङ्कायां' शडिन्ते 'चतुर्भङ्गी' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आषत्वात् , सा चेयं चतुर्भङ्गी-ग्रहणे शडिन्तो भोजने चेति प्रथमो भङ्गः, ग्रहणे शन्तिो न भोजने इति द्वितीयः, भोजने शडितो न ग्रहणे इति तृतीयः, न ग्रहणे न भोजने इति चतुर्थः, अत्र दोषानाह-'दोसुवी 'त्यादि, द्वयोरपि शन्तिस्य ग्रहणभोजनयोरपि यो वर्तते यश्च 'गहणे यत्ति ग्रहणेऽर्थापत्त्या न भोजने तथा भोजने सामर्थ्यान्न ग्रहणे स सर्वोऽपि 'लग्नो' दोषेण सम्बद्धः, केन दोषेण ?, इत्याह-'जं संकियं ' इत्यादि, षोडशोदुमदोषनवैषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शन्ति-सम्भावितमापन्नः-वर्त्तते तेन दोषेण सम्बद्धः, इदमुक्तं भवतियदाधाकर्मत्वेन शङ्कितं तद् गृह्णानो भुञ्जानो वाऽऽधाकर्मदोषेण सम्बध्यते, यदि पुनरौदेशिकत्वेन तत औदेशिकेनेत्यादि, चरमे चतुर्थभने । पुनवर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः । इह 'पणवीसा' इत्युक्तं, ततस्तानेव पञ्चविंशति दोषानाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy