________________
द्रव्यैषणा
पिण्डनियु- तेर्मलयगिरीयावृत्तिः
यां वानर
यूथदृष्टान्तः
॥१४६॥
द्विधा, तद्यथा-प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता-सम्यग्ज्ञानादिविषया, अप्रशस्ता-शन्तिादिदोषदुष्टभक्तपानादिविषया, सा च 'दश- पदा' वक्ष्यमाणशङ्कितादिभेदैदेशप्रकारा । तत्र वानरयूथोदाहरणं रूपकत्रयेण भावयति
पडिसडियपंडुपत्तं वणसंडं दहु अन्नहिं पेसे । जूहवई पडियरए जूहेण समं तहिं गच्छे ॥ ५१७ ॥ सयमेवालोएउं जूहबई तं वणं समंतेण । वियरइ तेसि पयारं चरिऊण य तो दहं गच्छे ॥ ५१८॥
ओयरंतं पयं दटुं, नीहरंतं न दीसई । नालेण पियह पाणीयं, नेस निक्कारणो दहो ॥ ५१९ ॥ व्याख्या-विशालशृङ्गो नाम पर्वतः, तत्रैकस्मिन् वनखण्डे वानरयूथमभिरमते, अथ च तत्रैव पर्वते द्वितीयमपि वनखण्डं सर्व-| पुष्पफलसमृद्ध समस्ति, परं तन्मध्यभागवर्तिनि हूदे शिशुमारोऽवतिष्ठते, स यत्किमपि मृगादिकं पानीयाय प्रविशति तत्सर्वमाकृष्य भक्ष|यति, अन्यदा च तद्वनखण्डं परिशटितपाण्डुपत्रमपगतपुष्पफलमवलोक्य यूथाधिपतिरन्यस्य वनखण्डस्य निर्वाहसमर्थस्य गवेषणाय वानर-1 | युगलं प्रेषितवान्, गवेषयित्वा च तेन यूथाधिपतेनिवेदितम्-अस्ति वनखण्डममुकप्रदेशे सर्व पुष्पफलपत्रसमृद्धमस्माकं निर्वाहयोग्य, ततो यूथाधिपतिः सह यूथेन तत्र गतवान् , परिभावयितुं च प्रवृत्तः समन्ततस्तद्वनखण्डं, ततो दृष्टस्तन्मध्ये जलपरिपूर्णो ह्रदः, परं तत्र प्रविशन्ति श्वापदानां पदानि दृश्यन्ते, न निर्गच्छन्ति, ततो यूथमाहूय यूथाधिपतिरुवाच-मात्र यूयं प्रविश्य पिबथ पानीयं, किन्तु तट- स्थिता एव नालेन पिबथ, यतो नैष हृदो निष्कारणो-निरुपद्रवः, तथाहि-मृगादीनामत्र पदानि प्रविशन्ति दृश्यन्ते न निर्गच्छन्तीति, एवं चोक्ते यैस्तद्वचः कृतं ते वानराः स्वेच्छाविहारसुखभाजिनो जाताः, इतरे तु विनष्टाः । उक्ता द्रव्यग्रहणैषणा, सम्पति भावग्रहणैषणा
१४६॥
Jain Education
anal
For Personal & Private Use Only
I
w
.jainelibrary.org