________________
व्याख्या-'एवम् ' उक्तेन प्रकारेणोद्गमोत्पादनाविशुद्धस्य-उद्गमोत्पादनदोषरहितस्य गवेषितस्य पिण्डस्य ग्रहणं भवति 'ग्रहणविशोधिविशुद्धस्य ग्रहणविषयशङ्कादिदोषाभावेन विशुद्धस्य, नान्यथा, ततो ग्रहणैषणादोषानहं वक्ष्ये इति भावः । ते च यत उत्पद्यन्ते तत्समुत्थान् दर्शयति
उप्पायणाएँ दोसे साहूउ समुट्ठिए वियाणाहि । गहणेसणाइ दोसे आयपरसमुट्ठिए वोच्छं ॥ ५१४ ॥
व्याख्या-उत्पादनाया दोषान् साधुतः समुत्थितान् विजानीहि, ग्रहणैषणाया दोषाँस्त्वात्मपरसमुत्थितान् तानहं वक्ष्ये । तत्र ये आत्मसमुत्था ये च परसमुत्थास्तान् विभागतो दर्शयति| दोन्नि उ साहुसमुत्था संकिय तह भावओऽपरिणयं च । सेसा अट्ठवि नियमा गिहिणो य समुट्ठिए जाण ॥५१५॥
व्याख्या-द्वौ दोषौ साधुसमुत्थिती, तद्यथा-शडिन्तं भावतोऽपरिणतं च, एतच्च द्वयमपि वक्ष्यमाणस्वरूपं, शेषानष्टावपि दोषान् गृहिणः समुत्थितान् जानीहि । सम्पति ग्रहणैषणाया निक्षेपमाह
नाम ठवणा दविए भावे गहणेसणा मुणेयव्वा । दवे वानरजूहं भावंमि य दसपया हुंति ॥ ५१६ ॥
व्याख्या-चतुर्दा ग्रहणैषणा, तद्यथा-नामग्रहणैषणा स्थापनाग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च, तत्र नामस्थापने द्रव्यग्रहणैषणाऽपि यावद्भव्यशरीररूपा तावद्वेषणाबद्वक्तव्या, ज्ञशरीरभव्यशरीरव्यतिरिक्त तु द्रव्यग्रहणैषणामाह-'द्रव्ये' द्रव्यग्रहणषणायामुदाहरणं वानरयूथं, भावग्रहणैषणा द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्राऽऽगमतो ज्ञाता तत्र चोपयुक्तः, नोआगमतस्तु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org