________________
मे हृतं घृतादि ? केनाई मुषितोऽस्मि ? इति विलपितुं प्रवृत्तः, ततः परिजननातं-युष्माभिरेव दापितं संयतेभ्यः तत्कि यूयमेवं भणय ?, ततो मौनमवलम्ब्य स्थितः । अत्र दोषानुपदर्शयति
पडिविज्ज थंभणाई सो वा अन्नो व से करिज्जाहि । पावाजीवीमाई कम्मणगारी य गहणाई ॥ ४९७ ॥ ___ व्याख्या-यो विद्ययाऽभिमन्त्रितः स च स्वभावस्थो जातः सन् कदाचित्मद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया 'स्तम्भनादि' स्तम्भनोचाटनमारणादि कुर्यात्, तथा 'पापाजीविनः' पापेन-विद्यादिना परद्रोहकरणरूपेण जीवनशीला मायिनः शठा इति लोके जुगुप्सा, तथा कार्मणकारिण इमे इति राजकुले ग्रहणाकर्षणवेषपरित्याजनकदर्थनमारणादि । सम्पति मन्त्रविषये मुरुण्डराजोपलक्षितपादलितोदाहरणमाहजह जह पएसिणी जाणुगंमि पालित्तओ भमाडेइ । तह तह सीसे वियणा पणस्सइ मुरुंडरायरस ॥ ४९८ ॥
व्याख्या–प्रतिष्ठानपुरे मुरुण्डो नाम राजा, पादलिप्ता नाम सूरयः, अन्यदा च मुरुण्डराजस्य बभूवातिशयेन शिरोवेदना, न केनापि विद्यामन्त्रादिभिरुपशमयितुं शक्यते, तत आकारिता राज्ञा पादलिप्ताः सूरयः, कृतास्तेषामागतानां महती प्रतिपत्तिः, कथितं । चाकारणकारणं शिरोवेदना, ततो यथा लोको न जानीते तथा मन्त्रं ध्यायद्भिः प्रावरणमध्ये निजदक्षिणजानुशिरसि पार्श्वतो निजदक्षिणहस्तप्रदेशिनी यथा यथा भ्राम्यते तथा तथा राज्ञः शिरोवेदना अपगच्छति, ततः क्रमेणापगता सकलाऽपि शिरोवेदना, जातोऽतिशयेन सूरीणामुपासकः, ततो विपुलं भक्तपानादिकं तेभ्यो दत्तवान् । अत्र दोषानाह
dain Education International
For Personal & Private Use Only
www.jainelibrary.org