SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुः तेर्मळयगिरीयावृत्ति | उत्पादनायां११ सं स्तवदोषः ॥१४॥ 中中中中中中中中中中中令令令令中中中中中中中令令中中中中中中中中中 गुणाः सर्वत्रापि विचरिताः, तथा 'पुरा' पूर्व मे शङ्काऽऽसीत्-याग् गुणः श्रूयते स किं तादृशः एवोतान्यादृश इति ?, सम्पति तु त्वयि दृष्टे निःशन्तिं मे हृदयं जातम् ।। उक्तं संस्तवद्वारम् , अथ विद्यामन्त्राख्यं द्वारमाह विज्जामंतपरूवण विज्जाए भिक्खुवासओ होइ । मंतंमि सीसवेयण तत्थ मुरुंडेण दिलुतो ॥ ४९४ ॥ ___ व्याख्या-विद्यामन्त्रयोः प्ररूपणा कर्त्तव्या, सा चैवं-ससाधना स्त्रीरूपदेवताधिष्ठिता वाऽक्षरपद्धतिर्विद्या, असाधना पुरुषरूपदेवताधिष्ठिता वा मन्त्रः, 'तत्थ 'त्ति तत्र विद्यायां भिक्षूपासको दृष्टान्तः, मन्त्रे शिरोवेदनायां मुरुण्डेन राज्ञोपलक्षितः पादलिप्तसूरिः। तत्र भिक्षूपासकदृष्टान्तं गाथाद्वयेन भावयति परिपिडियमुल्लावो अइपंतो भिक्खुवासओ दावे । जइ इच्छह अणुजाणह घयगुलवत्थाणि दावेमि ॥ ४९५ ॥ _ गंतुं विज्जामंतण किं देमि ? घयं गुलं च वत्थाई । दिन्ने पडिसाहरणं केण हियं केण मुट्ठोमि ? ॥ ४९६ ॥ व्याख्या-गन्धसमृद्ध नगरे धनदेवो नाम भिक्षपासकः, स च साधुभ्यो भिक्षार्थ गृहे समागतेभ्यो न किञ्चिदपि ददाति, अन्यदा च तरुणश्रमणानामकत्र परिपिण्डितानां परस्परमुल्लापः, तत्रैकेनोक्तम्-अतिप्रान्तोऽयं धनदेवः संयतानां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं घृतगुडादिकं दापयति, ततस्तेषां मध्ये केनाप्यूचे-यदीच्छथ ततोऽनुजानीध्वं मां येनाहं दापयामि, तैरनुज्ञातः, ततो गतस्तस्य गृहमभिमन्त्रितो विद्यया, ततो ब्रूते साधून-किं प्रयच्छामि ?, तैरुक्तं-घृतगुडवस्त्रादि, ततो दापितं तेन संयतेभ्यः प्रचुरं घृतगुडादिकं, तदनन्तरं च प्रतिसंहृता क्षुल्लकेन विद्या, जातः स्वभावस्थो भिलपासकः, ततो यावन्निभालयति घृतादिकं तावत्स्तोकं पश्यति, ततः केन ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy