SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ तेषु भद्रेषु साधोरुपरि प्रतिबन्धो भवेत् , प्रतिबन्धे च सत्यानाकर्यादिकं कृत्वा दयादिति । उक्तो द्विविधोऽपि सम्बन्धिसंस्तवः, अथ वचनसंस्तवस्य पूर्वरूपस्य लक्षणमाहगुणसंथवेण पुब्धि संतासंतेण जो थुणिज्जाहि । दायारमदिन्नंमी सो पुविसंथवो हवइ ॥ ४९० ॥ व्याख्या-गुणाः, औदार्यादयः तेषां य: 'संस्तवः' प्रशंसारूपो वचनसङ्घनतस्तेन सत्यरूपेणासत्यरूपेण वा यः साधुर्दातव्ये भक्तादावदत्ते सति दातारं स्तूयात, स एष पूर्वसंस्तवो भवति । अस्यैवोल्लेखं दर्शयतिएसो सो जस्स गुणा वियरंति अवारिया दस दिसासु । इहरा कहासु सुणिमो पञ्चखं अज्ज दिट्ठोऽसि ॥४९१॥ व्याख्या-मुगम, नवरम् ' इहरा' इतरथा, इदानी दर्शनात् पूर्वमित्यर्थः । सम्पति पश्चादूपस्य वचनसंस्तवस्य लक्षणमाह गुणसंथवेण पच्छा संतासंतेण जो थणिज्जाहि । दायारं दिन्नंमी सो पच्छासंथवो होइ ॥ ४९२ ॥ व्याख्या-दत्ते भक्तादौ सति पश्चादातारं गुणसंस्तवेन सत्यरूपेणासत्यरूपेण वा यः साधुः स्तूयात् एष पश्चात्संस्तवो भवति । सम्पत्यस्यैवोल्लेखं दर्शयतिविमली कयऽम्ह चक्खू जहत्थया वियरिया गुणा तुझं । आसि पुरा मे संका संपय निस्संकियं जायं ॥ ४९३ ॥ व्याख्या-भिक्षार्थ प्रविष्टः साधुर्लब्धे भक्तादौ दातारं वक्ति यथा निजदर्शनेन त्वया विमलीकृते नश्चक्षुषी, तथा यथार्थास्तव Jain Education For Personal & Private Use Only A jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy