________________
200000000000000000000000000000000
स्तवः । तत्र सम्बन्धिनो-मात्रादयः श्वश्र्वादयश्च तद्रूपतया यः संस्तवः स सम्बन्धिसंस्तवः, वचनं-श्लाघा तद्रूपो यः संस्तवः स वचनसंस्तवः, एकैकोऽपि च द्विधा, तद्यथा-'पुचि पच्छा यत्ति पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह
मायपिइ पुब्बसंथव सासूसुसराइयाण पच्छा उ । गिहि संथवसंबंधं करेइ पुवं च पच्छा वा ॥ ४८५ ॥
व्याख्या-मातापित्रादिरूपतया यः संस्तवः-परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात् , यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्संस्तवः, श्वश्रूवादीनां पश्चात्कालभावित्वात् , तत्र साधुर्भिक्षार्थ प्रविष्टः सन् गृहिभिः सह 'संस्तवसम्बन्ध । परिचयघटनं 'पूर्व' पूर्वकालभावि मात्रादिरूपतया 'पश्चाद्वा' पश्चात्कालभावि श्वश्र्वादिरूपतया वा करोति । कथम् ? इत्याह
आयवयं च परवयं नाउं संबंधए तयणुरूवं । मम माया एरिसिया ससा व धूया व नत्ताई ॥ ४८६॥ ___ व्याख्या-इह साधुर्भिक्षार्थ गृहे प्रविष्टः सन्नाहारलम्पटतयाऽऽत्मवयः परवयश्च ज्ञात्वा तदनुरूपं' वयोऽनुरूपं सम्बध्नाति, यदि सा वयोवृद्धा स्वयं च मध्यमवयाः ततो ममेदृशी माताऽभूदिति ब्रूते, यदि पुनः सापि मध्यमवयास्तत ईदृशी मम स्वसाऽभूदिति । वदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्प्रत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाहअहिइ दिडिपण्हव पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विहवासुण्हाइदाणं च ॥ ४८७ ॥ व्याख्या-कोऽपि साधुर्भिक्षार्थ प्रविष्टः काश्चिन्निजमातृसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मावस्थानेनाधृत्या दृष्टिप्रस्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org