________________
पिण्डनियु- क्तेर्मलयगि- रीयावृत्तिः
॥१३९॥
9999999999999999999999999999。
अद्य मया मोदका एव ग्रहीतव्याः, तेऽपिसिंहकेसरकाः, तत इत्थं सम्पधार्य भिक्षां प्रविष्टो लोलुपतयाऽन्यत्मतिषेधेन सिंहकेसरमोदकाँश्चाल-8 उत्पादनाभमानस्तावत्परिभ्रमति स्म यावत्सार्द्ध प्रहरद्वयं, ततो न लब्धा मोदका इति प्रनष्टचित्तो बभूव, ततो गृहद्वारे प्रविशन् वक्तव्यस्य धर्मलाभस्य यां लोभस्थाने सिंहकेसरा इति वदति, एवं च सकलमपि दिनं भ्रान्त्वा रात्रौ तथैव परिभ्रमन् प्रहरद्वयसमये श्रावकस्य गृहे प्रविवेश, धर्मलाभ- पिण्डे मुत्रभणनस्थाने सिंहकेसरा इत्युवाच, सोऽपि च श्रावकोऽतीव गीतार्थों दक्षश्च, ततस्तेन परिभाषयामासे-नूनमेतेन क्वापि न लब्धाः तोदा. सिंहकेसरा मोदका इति चित्तमस्य प्रनष्टं, ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भृतं भाजनमुपढौकितं, भगवन् ! प्रतिगृहाण सर्वानप्येतान् सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वस्थीभूतं तस्य चित्तं, श्रावकेण चोक्तं-भगवन् ! अद्य मया पूर्वार्द्धः प्रत्याख्यातः स किं पूर्णो न वा ? इति, ततः सुव्रत उपयोगमूर्व दत्तवान् , पश्यति गगनमण्डलमनेकतारानिकरपरिकरितमद्धरात्रोपलक्षितं, ततो ज्ञातवानात्मनो भ्रमं, हा ! मूढेन मया विरूपमाचरितं, धिग् मे लोभाभिभूतस्य जीवितं, भोः श्रावक ! सम्यक् कृतं त्वया यदहं सिंहकेसरमदानपूर्वं पूर्वार्द्धप्रत्याख्यानपरिपूर्णताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तव चोदना, तत आत्मानं निन्दन विधिना च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानलं प्रज्वालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि घातिकर्माण्युवोष, ततः प्रादुर्भूतं | ॥ तस्य केवलज्ञानम् । सूत्रं सुगमम् । उक्तं लोभद्वारम् , अथ संस्तवद्वारमाह
॥१३९॥ दुविहो उ संथवो खलु संबंधीवयणसंथवो चेव । एकेकोवि य दुविहो पुब्धि पच्छा य नायवो ॥ ४८४ ॥ व्याख्या-द्विविधः खलु संस्तवः, तद्यथा-परिचयरूपः श्लाघारूपश्च, तत्र परिचयरूपः सम्बन्धिसंस्तवः श्लाघारूपो वचनसं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org