________________
तयोर्जातं गृहीता दीक्षा, तदपि च नाटकं विश्वकर्षणा कुसुमपुरे नर्त्तिनुमारब्धं तत्रापि पञ्चशतसङ्ख्याः क्षत्रियाः प्रवज्यां गृहीतवन्तः, ततो लोकेन चिन्तितम्-एवं क्षत्रियाः प्रव्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटक पुस्तकमा प्रवेशितं । सूत्रं सुगमं, नवरं ' रायनडगेहपवेसणं 'ति राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, 'त्वग्दोषी ' कुष्ठी, उपसर्गः - नवज्याग्रहणे निवारणं, दहनं नाटकपुस्तकस्य । अत्रैवापवादमाह — 'गेलने 'त्यादि, ग्लानो - मन्दः, 'क्षपक: ' मासझपकादिः, 'प्राघूर्णक: ' स्थानान्तरादायातः, 'स्थविर:' वृद्ध:, आदिशब्दात्सङ्घ कार्यादिपरिग्रहः, तेषामर्थाय द्वितीयमपवादपदमिति भावः सेव्यते—लानाय निर्वाहे मायापिण्डोऽपि ग्राह्य इत्यर्थः । उक्तं मायाद्वारम्, अथ लोभद्वारमाह
लब्भंतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि । भदरसंति व काउं गिण्हइ खद्धं सिणिडाई ॥ ४८१ ॥
व्याख्या–अद्याहममुकं सिंहकेसरादिकं ग्रहीष्यामीति बुद्धयाऽन्यदलचनकादिकं लभ्यमानमपि यन्न गृह्णाति, किन्तु तदेवेप्सितं, स लोभपिण्डः । अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं 'ख' प्रचुरं 'स्त्रिग्वादि ' लपनश्रीप्रभृतिकं भद्रकरसमिति कृत्वा यगृह्णाति स लोभपिण्डः । तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाद्वयेनाह -
Jain Education International
चंपा छणंमि घिच्छामि मोयए तेवि सीहकेसरए । पडिसेह धम्मलाभं काऊणं सीहकेसरए ॥ ४८२ ॥ सड्ढढरतकेसरभायण भरणं च पुच्छ पुरिमडे । उवओग संत चोयण साहुत्ति विगिचणे नाणं ॥ ४८३ ॥ व्याख्या - चम्पा नाम पुरी, तत्र सुत्रतो नाम साधुः, अन्यदा च तत्र मोदकोत्सवः समजनि, तस्मिंश्च दिने सुवतोऽचिन्तयत्
For Personal & Private Use Only
www.jainelibrary.org