SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ त्परमबन्धुकल्पानां गुरूणां पृष्ठं ददामि इति पश्चात्कृतपादमचारो हा ! कथमहं भूयोऽप्येवं विधगुरूणां चरणकमलं प्राप्स्यामि ? इति विचिन्तयन् वसतेर्विनिर्गत्य विश्वकर्मणो भवनमायातः, परिभावितमस्य सादरमनिमिषदृष्टया नटदुहितृभ्यां वपुः, प्रत्यभासत सकलजगदाश्चर्यमस्य रूपं, ततोऽचिन्तयतामिमे-अहो ! कौमुदीशशाङ्कमण्डलमिवास्य मनोहरकान्तिवदनं कमलदलयुगलमिव नयनयुगल गरुन्मत इव तुङ्गमायतं नाशानालं कुन्दमुकुलश्रेणिरिव सुस्निग्धा दशनपद्धति: महापुरकपाटमिव विशालमस्य मांसलं वक्षःस्थलं मृगरिपोरिव संवर्तितः कटिप्रदेमूः निगूढजानुप्रदेशं जङ्घायुगलं सुप्रतिष्ठितकनककूर्मयुगलमिव चरणयुगलं, ततो विश्वकर्माऽवोचत्-महा|भाग ! तवाऽऽयत्ते द्वे अप्यमू कन्यके ततः खीक्रियेतामिति, ततः परिणीते ते द्वे अपि तेन कन्यके, भणिते च विश्वकर्मणा-यो नामैतादृशीमप्यवस्थां गतो गुरुपादान् स्मरति स नियमादुत्तमप्रकृतिः, तत एतच्चित्तावर्जनार्थ सर्वदैव मद्यपानविरहिताभिर्युष्माभिः स्थातव्यं अन्यथैष विरक्तो यास्यति, आषाढभूतिश्च सकलकलाकलापपरिज्ञानकुशलो नानाविधैर्विज्ञानातिशयैः सर्वेषामपि नटानामग्रणीभूव, लभते च सर्वत्र प्रभूतं द्रव्यं वस्त्राभरणानि च, अन्यदा च राज्ञा समादिष्टा नटाः-अद्य निमहेलं नाटकं नर्तनीय, ततः सर्वेऽपि नटाः स्वां स्वां युवति स्वस्वगृहे विमुच्य राजकुलं गताः, आषाढभूतिभार्याभ्यामपि चिन्तितम्-अद्य राजकुले गतोऽस्माकं भर्ती सकलामपि च रात्रि गमयिष्यतीति, ततः पिबामो यथेच्छमासवमिति, तथैव कृतं, मवशाचापगतचेतने विगतवस्त्रे द्वितीयभूमिकाया उपरि सुप्ते तिष्ठतः राजकुलेऽपि परराष्ट्रदूतः समायात इति राज्ञो व्याक्षेपो बभूव, ततोऽनवसर इतिकृत्वा प्रतीहारेण मुत्कलिताः सर्वेऽपि नटाः समागताः स्वं स्वं भवनं, आषाढभूतिश्च निजकावासे समागत्य यावद्वितीयभूमिकामारोहति तावत्ते द्वे अपि निजभार्ये विगतवस्त्रतया बीभत्से पश्यति, ततः स महात्माऽचिन्तयत्-अहो ! मे मूढता अहो ! मे निर्विवेकता अहो ! में दुर्विलसितं य एतादृशामध्यशुचिकरण्डकभूतानामधोगतिनिबन्धनानां कृते परमशुचिभूतमिहपरलोककल्याणपरम्पराजनकमक्षेपेण मुक्तिपदनिबन्धनं संयम उज्झांबभूव, ततो dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy