________________
धूयदुए संदेसो दाणसिणेह करणं रहेगहणं । लिंगं मुयत्ति गुरुसिह विवाहे उत्तमा पगई ॥ ४७६॥ रायघरे य कयाई निम्महिलं नाडगं तडागत्था । ता य विहरंति मत्ता उवरि गिहे दोवि पासत्ता ॥ ४७७॥ वाघाएण नियत्तो दिस्स विचेला विराग संबोही । इंगियनाए पुच्छा पजीवणं रहवालंमि ॥ ४७८ ॥ इक्खागवंस भरहो आयंसघरे य केवलालोओ। हाराइखिवण गहणं उवसग न सो नियत्तोत्ति ॥ ४७९ ॥ तेण समं पव्वइया पंच नरसयत्ति नाडए डहणं । गेलन्न खमग पाहुण थेरा दिट्ठा य बीयं तु ॥ ४८० ॥
व्याख्या-राजगृहं नाम नगरं, तत्र सिंहरथोराजा, विश्वकर्मा नाम नटः, तस्य द्वे दुहितरौ, ते चद्वे अप्यतिसुरूपे अतिशयाते वदनकान्त्या दिनकरकरोद्भासितकमलश्रियं नयनयुगलेन सचश्चरीककुवलययुगलं पीनोन्नतनिरन्तरपयोधरयुगलेन संहततालफलयुगललक्ष्मी वाहुयुगलेन पल्लवलतां त्रिवलिभङ्गरेण मध्यभागेनेन्द्रायुधमध्यं जघनविस्तरेण जाह्नवीपुलिनदेशं ऊरुयुगलेन गजकलभनासाभोगं जङ्गायुगलेन कुरुविन्दवृत्तसंस्थितं चरणयुगलेन कूर्मदेहाकृति सुकुमारतया शिरीषकुसुमसञ्चयं वचनमधुरतया वसन्तमासोन्मत्तकोकिला-|| रवं, अन्यदा च तत्र यथाविहारक्रमं समाययुर्धर्मरुचयो नाम सूरयः, तेषामन्तेवासी प्रज्ञानिधिराषाढभूतिः, स भिक्षार्थमटन् कथमपि विश्वकर्मणो नटस्य गृहे प्राविशत् , तत्र च लब्धः प्रधानो मोदकः, द्वारे च विनिर्गत्य तेन चिन्तितम्-एष सूरीणां भविष्यति, तत आत्मार्थ रूपपरावर्त्तमाधायान्यं मोदकं मार्गयामि, ततः काणरूपं कृत्वा पुनः प्रविष्टो, लब्धो द्वितीयो मोदकः, ततो भूयोऽपि चिन्तितम्एष उपाध्यायस्य भविष्यति, ततः कुब्जरूपमभिनिववं पुनरपि प्रविष्टः, लब्धस्तृतीयो मोदका, एष द्वितीयसवाटकसाधोभविष्यतीति
Jain Education.MOMonal
For Personal & Private Use Only
www.jainelibrary.org