________________
यितुं बालस्य जानातीतिकृत्वा हदज्ञ हति नाम तस्य कृतं, एष हदज्ञः । तत एवमुक्ते क्षुल्लकेन सर्वैरपि पर्पजनैरेककालमट्टहासेन हसद्भिरभाणि-क्षुल्लक ! एष षण्णामपि पुरुषाणां गुणानाददाति तन्मैनं महेलाप्रधानं याचिष्ट, विष्णुमित्रोऽवादीत-नाहं षण्णां पुरुषाणां समानस्तस्माद्याचस्व मामिति, ततः क्षुल्लकेनोक्त-देहि मे घृतगुडसंयुक्ताः पात्रभरणप्रमाणाः सेवकिकाः, विष्णुमित्रेणोक्तं-ददामि, ततः क्षुल्लकं गृहीत्वा निजगृहाभिमुखं चलितवान् , समागतो निजगृहद्वारे, ततः क्षुल्लकेनामाणि-प्रथममपि तव गृहे समागतोऽहमासं परं तव भार्यया प्रतिज्ञा व्यधायि यथा न किमपि ते दास्यामि, तत इदानीं ययुक्तं तत्समाचर, तत एवमुक्ते विष्णुमित्रोऽवादीत-यद्येवं तर्हि ।
क्षणमात्रमेव गृहद्वारेऽवतिष्ठस्व पश्चादाकारयिष्यामि, ततः प्रविष्टो गृहमध्ये मित्रः, पृष्टा च तन निजभार्या-यथा राद्धाः सेवकिकाः प्रगुदणीकृतानि घृतगुडादीनि ?, तयोक्तं-कृतं सर्व परिपूर्ण, ततो गुडं प्रलोक्य स्तोक एष गुडो नैतावता सरिष्यतीति मालादानय प्रभूतं
गुडं येन द्विजान् भोजयामीति, ततः सा तद्वचनादारूढा मालं अपनीता तेन निःश्रेणिः, तत आकार्य क्षुल्लकं पात्रभरणप्रमाणा ददौ तस्मै सेवकिकाः घृतगुडादीनि च दातुमारब्धानि, अत्रान्तरे गुडमादाय सुलोचना मालादुत्तरितुं प्रवृत्ता परं न पश्यति निःश्रेणि, ततो विस्मितदृष्टया प्रसरं यावदालोकते तावत्पश्यति क्षुल्लकाय घृतगुडसंयुक्ताः सेवकिका दीयमानाः, ततोऽहमनेन क्षुल्लकेनाभिभूतेत्यभिमानपूरितहृदया माऽस्मै देहि माऽस्मै देहीति महता शब्देन पूत्कुरुते, क्षुल्लकोऽपि तस्याः सम्मुखमवलोक्य मया तव नासिकापुटे मूत्रितमिति निजनासापुटेऽङ्गल्यभिनयेन दर्शयति, दर्शयित्वा च भृतघृतगुडसेवकिकापात्रो जगाम निजवसताविति । एतदेव रूपकाष्टकेन दर्शयति
इट्टगछणमि परिपिंडियाण उल्लाव को णु हु पगेव । आणिज्ज इट्टगाओ ? खुड्डो पच्चाह आणेमि ॥ ४६६ ॥ जइवि य ता पज्जत्ता अगुलघयाहि न ताहिं णे कज्जं । जारिसियाओ इच्छह ता आणेमित्ति निक्खंतो ॥४६७॥
0
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org