SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतर्मलयगि रीयावृत्तिः ॥१३॥ प्रातरेवोत्थाय कृताञ्जलिपग्रहो वदति-दयिते ! किं करोमि !, सा च वदति-तडागादुदकमानय, ततो यत्प्रिया समादिशतीत्युदित्वा उत्पादनातडागादुदकमानयति, पुनरपि भणति-किं करोमि प्राणेश्वरि !, सा वदति-कुसूलादाकृष्य तण्डुलान् कण्डय, एवं यावद्भोजनादूर्घ मम यां मानपिपादान प्रक्षाल्य घृतेन फाणयेति, स च सर्व तथैव करोति, तत एवं लोकेन ज्ञात्वा तस्य किङ्कर इति नाम निवेशितं, एष किङ्करः।। पाण्डे दृष्टान्तः तथा कचिद्रामे कोऽपि पुरुषो भार्याऽऽदेशवी, स चान्यदा निजभार्यामवादीत्-प्राणेश्वरि ! स्नातुमहमिच्छामि, तयोक्तं-यद्येवं तयाँ-||७|| मलकान् शिलायां वर्त्तय परिधेहि स्नानपोतिका अभ्यङ्गय तैलेनात्मानं गृहाण च घटं ततस्तडागे स्नात्वा घटं च जलेन भृत्वा समागच्छेति, स च देवताशेषामिव भार्याऽऽदेशं शिरसि निधाय तथैव करोति, एवं च सर्वदैव, ततो लोकेनास्यार्थस्य प्रकटनार्थ हासेनास्य स्नायक इति नाम कृतं, एष स्नायकः । तथा कचिद्रामे कोऽपि पुरुषो भार्याऽऽदेशविधायी, अन्यदा च सा रसवत्यामासने समुपविष्टा वर्त्तते, सा च तेन भोजनमयाचि, तयोक्तं-मम समीपे स्थालमादाय समागच्छेः, सोऽपि यत्मियतमा समादिशति तन्मे प्रमाणमिति || ब्रुवंस्तस्याः समीपे गतः, तया परिवेषितं भोजनं, तत उक्तं-भोजनस्थाने गत्वा भुड्क्ष्व, ततः स भोजनस्थानं गत्वा भोक्तुं प्रवृत्तः, ततः पुनरपि तेन तीमनं याचितं, सा च प्रत्युवाच-स्थालमादाय मम समीपे समागच्छेः, ततः स गृध्र इव उत्कटिको रिङ्खन् स्थालेन गृहीतेन याति, एवं तक्रादिकमपि गृहाति, तत एतल्लोकेन ज्ञात्वा हासेन गृध्रइवरिडीति नाम कृतं, एप गृध्रइवरिङ्खी । तथा कचिद्रामे भार्यामुखप्रलोकनसुखलम्पटस्तदादेशकारी कोऽपि पुरुषः, तस्यान्यदा स्वभार्यया सह विषयसुखमनुभवतः पुत्रो बभूव, स च पालनक एव स्थितोऽतिबालत्वात् पुरीषमुत्सृजति, तेन च पुरीषेण पालनकं बालवस्त्राणि च खरण्ठ्यन्ते, ततः सा भणति-बालस्य पुते प्रक्षालय पालनकं बालवस्त्राणि च, ततो यत्तिया समादिशति तत्करोमीति वस्तथैव करोति, एवं सर्वदैव, ततो लोकेनैतद् ज्ञात्वा हदनं प्रक्षाल . . . . . Jain Education M o nal For Personal & Private Use Only asow.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy