SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पृष्टवान्-भो! युष्माकं मध्ये को विष्णुमित्रः?, जना अवादिषु:-क साधो ! तव तेन प्रयोजनं?, साधुरवोचत्-तं किमपि याचिष्ये, स च तेषां सर्वेषामपि प्रायो भगिनीपतिरिति सहासं तैरवाचि-कृपणोऽसौ न ते किमपि दास्यतीत्यस्मानेव याचस्व, ततो विष्णुमित्रो मा मेऽपभ्राजना भूदिति तेषामग्रतः कृत्वा बभाण-अहं भो ! विष्णुमित्रोऽहं याचस्व मां किमपि, मा केलिवचनममीषां कर्णे कापी, ततोऽवादीत् क्षुल्लकः-याचेऽहं यदि त्वं महेलाप्रधानानां षण्णां पुरुषाणामन्यतमो न भवति, ततः पर्षजना अवादिषुः-के ते षट् पुरुषा महेलाप्रधाना? येषामन्यतमोऽयमाशङ्कयते, ततः क्षुल्लक आह-श्वेताङ्गलिबकोड्डायकः किङ्करः स्नायकः गृध्रावरिखी हदज्ञ इति, एतेषां च षण्णामपि कथानकान्यमूनि-कचिदामे कोऽपि पुरुषो निजभार्याच्छन्दानुवर्ती, स च प्रातरेव जातबुभुक्षो निजभाया भोजनं याचते, सा च वदति-नाहमालस्येनोत्थातुमुत्सहे ततस्त्वमेव समाकर्ष चुल्या भस्म प्रक्षिप तत्र प्रातिवेश्मिकगृहादानीय बहि प्रज्वालय तमिन्धनप्रक्षेपेण समारोपय चुल्याः शिरसि स्थाली, एवं यावत्पक्त्वा कथय, ततोऽहं परिवेषयामीति, स च तथैव प्रतिदिवसं कुरुते, ततो लोकेन प्रातरेवास्य चुल्या भस्मसमाकर्षणेन श्वेतीभूताङ्गुलिदर्शनात्सहासं श्वेताङ्गलिरिति नाम कृतम्, एष श्वेताङ्गलिः । तथा कचि द्रामे कोऽपि पुरुषो निजभार्यामुखदर्शनसुखलम्पटस्तदादेशवती, अन्यदा तया भार्यया बभणे-यथाऽहमालस्येन भुक्ता, ततस्त्वमेवोदक || तडागादानय, स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमानः प्रतिवदति-यदादिशसि प्रिये ! तदहं करोमि, ततो दिवसे मा लोको मां द्राक्षीदिति रात्रौ पश्चिमयामे समुत्थाय प्रतिदिवसं तडागादुदकमानयति, तस्य च तत्र गमनागमने कुर्वतः पदसञ्चारशब्दश्रवणतो घटभरणबुद्धदशब्दश्रवणतश्च तडागपालीक्षेषु प्रसुप्ता बका उत्थायोड्डीयन्ते, एष च वृत्तान्तो लोकेन विदितः, ततोऽस्यार्थस्य सूचनार्थ हासेन | बकोडायक इति नाम कृतं, एष बकोड्डायकः । तथा कचिद्वापे कोऽपि पुरुषो भार्यास्तनजयनादिस्पर्शलम्पटो भार्याच्छन्दानुवर्ती, स च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy