SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु तर्मळयगि रीयावृत्तिः मानयोहष्टान्तौ ॥१३॥ ओच्छाहिओ परेण व लडिपसंसाहिं वा समुत्तइओ। अवमाणिओ परेण य जो एसइ माणपिंडो सो ॥ ४६५ ॥ | उत्पादना | व्याख्या-'उत्साहितः । त्वमेवास्य कार्यस्य करणे समर्थ इत्येवमुत्कर्षितः 'परेण' अपरेण साध्वादिना, 'वा' विकल्पे, तथा दोषे क्रोधलब्धिप्रशंसाभ्यां 'समुत्तइओ' गर्वितो यथाऽहं यत्र कापि व्रजामि तत्र सर्वत्रापि लभे तथैव च जनो मां प्रशंसतीत्येवमभिमानवान्, यद्वा न किमपि त्वया सिद्धयतीत्येवमपमानितोऽपरेणाहङ्कारवशाद्य एषयति पिण्डं स तस्य मानपिण्डः । अत्र च क्षुल्लकोदाहरणं-गिरिपुपिते नगरे सिंहाभिधानाः सूरयः सपरिवाराः समाययुः, अन्यदा च तत्र सेवकिकाक्षणः समजनि, तस्मिंश्च दिवसे सूत्रपौरुष्यनन्तरमेकत्र तरुणश्रमणानां समवायोऽभवत्, बभूव च परस्परं समुल्लापः, तत्र कोऽप्यवादीत-को नामैतेषां मध्ये प्रातरेव सेवकिका आनेष्यति, तत्र गुणचन्द्राभिधः क्षुल्लकः प्रत्यवादीद-अहमानेष्यामि, ततः सोऽभाणीत-यदि ताः सर्वसाधूनां न परिपूर्णा घृतगुडरहिता वा ततो न ताभिः प्रयोजनं, तस्माद्यद्यवश्यमानेतव्यास्तहिं परिपूर्णा घृतगुडसम्मिश्राश्चानेतव्याः, क्षुल्लक आह-यारशीस्त्वमिच्छसि तादृशीरानेप्यामि, एवं च कृत्वा प्रतिज्ञां नान्दीपात्रमादाय भिक्षार्थ निर्जगाम, प्रविष्टश्च कापि कौटुम्बिकगृहे, दृष्टाश्च तत्र प्रचुराः सेवकिकाः, घृत-| गुडादीनि च प्रभूतानि प्रगुणीकृतानि, ततोऽनेकधा वचनभङ्गीभिः सुलोचनाभिधाना कौटुम्बिकगृहिणी याचिता, तया च सर्वथा प्रतिपिद्धो-न किमपि ते ददामीति, ततः सञ्जातामर्षेण वभणे क्षुल्लकेन-नियमादिमाः सेवकिकाः सवृतगुडा मया गृहीतव्याः, सुलोचनाऽपि सामर्ष क्षुल्लकवचः श्रुत्वा सञ्जातप्रकोपा प्रत्युवाच-यदि त्वमेतासां सेवकिकानां किमपि लभसे ततो मे नासापुटे त्वया प्रस्रवणं कृतमिति ।। ॥१३४॥ ततः क्षुल्लकोऽचिन्तयद्-अवश्यमेतन्मया विधातव्यम् , एवं च विचिन्त्य गृहान्निर्ययो, पप्रच्छ च कस्यापि पार्चे-कस्येदं गृहम् ? इति, सोऽवादी-विष्णुमित्रस्य, ततः पुनरपि क्षुल्लकः पृच्छति-स इदानीं क वर्त्तते ?, तेनोक्तं-पर्षदि, ततः पर्पदि गत्वा सहर्ष इव पर्षजनान् । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education Interational For Personal & Private Use Only Ljainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy