________________
अन्नेसि दिज्जमाणे जायंतो वा अलद्धिओ कुप्पे । कोहफलंमिऽवि दिट्ठे जो लब्भइ कोहपिंडो सो ॥ ४६३ ॥
व्याख्या—— अन्येभ्यः ' ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान् सन् कुप्येत, कुपिते च सति तस्मिन् साधुः कुपितो भव्यो न भवतीति यद्दीयते स क्रोधपिण्डः । यदिवा तस्मिन्नन्यत्र वा क्रोधफले मरणादिशापे फलवति दृष्टे यो लभ्यते स क्रोधपिण्डः । अत्रैवोदाहरणमाह
करडुय भत्तमलद्धुं अन्नहिं दाहित्य एव वच्चंतो । थेरो भोयण तइए आइक्खण खामणा दाणे ॥ ४६४ ॥
व्याख्या - हस्तकल्पे नगरे कचिद्राह्मणगृहे मृतकभक्ते मासिके दीयमाने कोऽपि साधुर्मासक्षपणपर्यवसाने भिक्षार्थं प्रविवेश, दृष्टाथ तेन घृतपूरा ब्राह्मणेभ्यो दीयमानाः सोऽपि च साधुः प्रतिषिद्धो दौवारिकेण, ततः कुपितोऽवादीत्, 'अन्नहिं दाहित्य 'त्ति, | अस्य चायमर्थ:-अस्मिन् मासिके तावन्मया न लब्धं ततोऽन्यस्मिन् मासिके दास्यथेति, एवं चोक्त्वा निर्गतः, दैवयोगेन च तत्रान्यन्मानुषं पञ्चषदिनमध्ये मृतं, ततस्तस्य मासिके दीयमाने भूयः स एव साधुर्मासक्षपणपारणे गतः, तथैव च प्रतिषिद्धो दौवारिकेण, ततः भूयो|ऽपि कुपितोऽवादीत् - 'अन्नहिं दाहित्य 'त्ति, ततः पुनरपि दैवयोगेन तत्रान्यन्मानुषमुपगतं, ततस्तस्यापि मासिके स एव साधुर्मासक्षपणः पारणे भिक्षार्थमागतः तथैव च प्रतिषिद्धो दौवारिकेण भणति - 'अन्नहिं दाहित्य'त्ति, एतच्च श्रुत्वा तेन स्थविरेण दौवारिकेण चिन्तितं, पुराऽप्येतेन वारद्वयमित्थं शापो वितीर्णस्ततो द्वे मानुषे उपगते सम्प्रति तृतीयवेला ततो मा किमपि मानुषं म्रियतामिति जाताऽनुक|म्पेन सर्वोऽपि वृतान्तो गृहनायकाय निवेदितः तेन च समागत्य सादरं साधुं क्षमयित्वा घृतपूरादिकं तस्मै यथेच्छं व्यतारि, स क्रोधपिण्डः । सूत्रं सुगमं, नवरं 'करडुकभक्तं ' मृतकभोजनं मासिकादि । तदेवमुक्तः क्रोधपिण्डः । सम्प्रति मानपिण्डस्य सम्भवमाह
Jain Education Intersonal
For Personal & Private Use Only
www.jainelibrary.org