SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयागरीयावृत्तिः ॥१३२॥ दाणं न होइ अफलं पत्तमपत्तेसु सन्निज़ज्जंतं । इय विभणिएऽवि दोसा पसंसओ किं पुण अपत्ते ॥ ४५५ ॥ उत्पादना व्याख्या-इह पात्रेष्वपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमित्यपि भणिते दोषः, अपात्रदानस्य पात्रदानसमतया प्रश- दोषेषु ६ |सनेन सम्यक्त्वातिचारसम्भवात्, किं पुनः अपात्राण्येव साक्षात् प्रशंसतः ?, तत्र सुतरां महान् दोपो, मिथ्यात्वस्थिरीकरणादिदोषभा- चिकित्सावादिति। तदेवमुक्तं वनीपकद्वारं, सम्पति चिकित्साद्वारमाह दोषः भणइ य नाहं वेज्जो अहवाऽवि कहेइ अप्पणो किरियं । अहवावि विजयाए तिविह तिगिच्छा मुणेयव्वा॥ ४५६ ॥ व्याख्या-इह 'चिकित्सा' रोगपतीकारो रोगप्रतीकारोपदेशो वा विवक्षिता, ततः साधूनधिकृत्य 'त्रिविधा त्रिप्रकारा चिकित्सा ज्ञातव्या, तद्यथा-केनापि रोगिणा रोगप्रतीकारं साधुः पृष्टः सन्नाह-किमहं वैद्यः?, एतावता च किमुक्तं भवति ?-वैद्यस्य समीपे गत्वा चिकित्सा प्रष्टव्या इत्यबुधबोधनादेका चिकित्सा, अथवा रोगिणः पृष्टः सन्नेवमाह-ममाप्येवंविधो व्याधिरासीत्, स चामुकेन भेषजेनोपशान्तिमगमत, एषा द्वितीया चिकित्सा, अथवा वैद्यतया वैद्यीभूय साक्षाचिकित्सां करोति, एषा तृतीया । इहाये द्वे चिकित्से सूक्ष्मे, तृतीया तु वादरा । तत्राद्यां व्याचिख्यासुराहभिक्खाइ गओ रोगी कि विज्जोऽहंति पच्छिओ भणइ । अत्थावत्तीऍ कया अबहाणं बोहणा एवं ॥ ४५७ ॥ ॥१३२॥ ___ व्याख्या-'भिक्षादौ ' भिक्षादिनिमित्तं गतः सन् 'रोगी 'ति अत्र तृतीयार्थे प्रथमा रोगिणा पृष्टः सन्नाह–किमहं वैद्यः ? येन | कथयामि, एवं चोक्ते सति 'अर्थापत्त्या' सामर्थ्यादबुधानां-वैद्यस्य पार्चे गत्वा चिकित्सा कार्यते इत्यजानतां बोधना-अनन्तरोक्तस्यार्थस्य ज्ञापना कृता भवति । द्वितीयां व्याख्यानयति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy