________________
व्याख्या-अपि नाम गवादीनां तृणादिक आहारो भवेत् सुलभः, छिच्छिकारहतानां त्वमीषां शुनां न तु कदाचनापि भवति सुलभः, तत एतेभ्यो यद्दीयते तदेव बहुफलमिति भावः, अपि च नैते श्वानः श्वान एव, किन्तु ' गुह्यका' देवविशेषा 'कैलासभवनात् ' कैलासपर्वतरूपादाश्रयादागत्य 'महीं' पृथिवीं यक्षरूपेण श्वाकृत्या चरन्ति, तत एतेषां पूजाऽपूजा च यथासङ्घयं हिताहिता चेति । सम्पति ब्राह्मणादिविषयवनीपकत्वे दोषानाह
एएण मज्झ भावो दिवो लोए पणामहेज्जंमि । एक्कक्के पुव्वुत्ता भद्दगपंताइणो दोसा ॥ ४५३ ॥
व्याख्या-'एतेन' अनेन साधुना 'मज्झ' मदीयः 'भावः' भक्तत्वलक्षणः 'दृष्टः । अवगतो 'लोके' ब्राह्मणादौ, किंविशिष्टे? इत्याह-'प्रणामहार्ये' प्रणामः-प्रणमनं तेन, उपलक्षणमेतत् दानादिना च, हार्ये-आवर्जनीये, तत एकैकस्मिन् ब्राह्मणादि-| विषये वनीपकत्वे पूर्वोक्ता भद्रकमान्तादयो दोषा भावनीयाः, किमुक्तं भवति ?-यदि भद्रकस्तर्हि प्रशंसावचनतो वशीकृत आधाकर्मादि कृत्वा प्रयच्छति, अथ प्रान्तस्तहि गृहनिष्कासनादि करोति । इह प्राक् 'साणे पुण होइ पंचमए । इत्युक्तं, तत्र साणग्रहणं काकादीनामुपलक्षणं, तेन काकादिष्वपि वनीपकत्वं द्रष्टव्यं , तथा चाह
एमेव कागमाई साणग्गहणेण सूइया होति । जो वा जंमि पसत्तो वणइ तहिं पुढऽपुट्ठो वा ॥ ४५४ ॥ . व्याख्या-'एवमेव ' वनीपकत्वप्ररूपणाविषयत्वेन श्वग्रहणेन काकादयोऽपि सूचिता भवन्ति, ततस्तत्रापि वनीपकत्वं भावनीयम् ।। एतदेव व्याप्तिपुरस्सरमाह-यो वा यत्र काकादौ पूजकत्वेन प्रसक्तस्तत्र काकादिस्वरूपं पृष्टोऽपृष्टो वा 'वनति ' प्रशंसाद्वारेणाऽऽत्मानं । भक्तं दर्शयति । सम्पति बनीपकत्वं कुर्वतः साधोयुक्त्या दोषगरीयस्त्वं प्रकटयति
Jain Education International
For Personal & Private Use Only
www.janelibrary.org