________________
पिण्डनियुकेर्मलयगिरीयावृत्तिः
॥१३॥
मानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषट्कर्मनिरतेषु ?, तेषु विशेषतो बहुफलं भविष्यतीति भावः । सम्पति कृपणभक्तानां || | उत्पादनापुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयति
दोषेषु ५ किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं । पूयाहिज्जे लोए दाणपडागं हरइ दितो ॥ ४४९ ॥ वनीपकेषु व्याख्या-इह लोकः पूजाहार्यः-पूजया ह्रियते-आवर्यते इति पूजाहार्यः-पूजितपूजको, न कोऽपि कृपणादिभ्यो ददाति,
५ भेदाः ततः कृपणेषु तथेष्टवियोगादिना दुर्मनस्सु तथाऽवान्धवेषु तथाऽऽतङ्को-ज्वरादिस्तद्योगादातङ्किनोऽप्यातङ्कास्तेषु तथा 'जुङ्गिताङ्गेषु च । कर्त्तितहस्तपादाद्यवयवेषु निराकाश्तया दददस्मिल्लोके दानपताका 'हरति ' गृह्णाति । साम्प्रतमतिथिभक्तानां पुरतोऽतिथिप्रशंसारूपं वनीपकत्वं यथा साधुर्विदधाति तथा दर्शयतिपाएण देइ लोगो उवगारिसु परिचिएसुऽज्झुसिए वा । जो पुण अडाखिन्नं अतिहिं पूएइ तं दाणं ॥ ४५०॥
व्याख्या-इह प्रायेण लोक उपकारिषु यद्वा परिचितेषु यदिवा ' अध्युषिते ' आश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नम-| तिथिं पूजयति तदेव दानं, जगति प्रधानमिति शेषः । अधुना शुनां भक्तानां पुरतः शुनकप्रशंसारूपं वनीपकत्वं कुर्वन् यक्ति तदुपदर्शयति
अवि नाम होज सुलभो गोणाईणं तणाइ आहारो । छिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ ४५१ ॥ केलासभवणा एए, आगया गुज्झगा महिं । चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ ४५२ ॥
Jain Education International
For Personal &Private Use Only
Law.jainelibrary.org