SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000000000000 भुजंति चित्तकम्मं ठिया व कारुणिय दाणरुइणो वा । अवि कामगद्दहेसुवि न नरसई किं पुण जईसु ?॥ ४४६॥ व्याख्या एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते यथा चित्रकर्मलिखिता इव भुञ्जाना लक्ष्यन्ते, तथा परमकारुणिका एते दानरुचयश्च, तत एतेभ्योऽवश्यं भोजनं दातव्यम् , अपि च 'कामगर्दभेष्वपि ' मैथुने गर्दभेष्विवातिप्रस तेषु ब्राह्मणेविति गम्यते, दत्तं न नश्यति , किं पुनरमीषु शाक्यादिषु ?, एतेभ्यो दत्तमतिशयेन बहुफलमिति भावः, तस्मादातव्यपेतेभ्यो विशेषतः । अत्र दोषान् दर्शयतिमिच्छत्तथिरीकरणं उग्गमदोसा य तेस वा गच्छे । चडुकारदिन्नदाणा पच्चत्थिग मा पुणो इंतु ॥ ४४७ ॥ व्याख्या-एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि-साधनोऽप्पमून् प्रशंसन्ति तस्मादेतेषां धर्मः। सत्य इति, तथा यदि भक्ता भद्रका भवेयुः तत इत्थं साधुप्रशंसामुपलभ्य तद्योगमाधाकर्मि कादि समाचरेयुः, ततस्तरबसपा कदाचित्साधुवेषमपहाय तेषु शाक्यादिषु गच्छेयुः, तथा लोके चटुकारिण एते जन्मान्तरेऽप्यदत्तदाना आहारावर्थ श्वान इवात्मानं दर्शय-| शान्तीत्यवर्णवादः, यदि पुनः शाक्यादयः शाक्यादिभक्ता वा 'प्रत्यर्थिकाः' प्रत्यनीका भवेयुः ततः प्रदेषतः प्रशंसावचनमवज्ञायेत्थं ब्यु:मा पुनरत्र भवन्त आयान्विति । ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा करोति तथा दर्शयतिलोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कामनिरएसु ? ॥ ४४८ ॥ । व्याख्या-पिण्डप्रदानादिना लोकोपकारिषु भूमिदेवेषु ब्राह्मणेवपि नाम ब्रह्मबन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि दानं दीय dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy