________________
उत्पादनादोषेषु ५ वनीपके ५ भेदाः
पिण्डनियु- व्याख्या-वनीपकः पञ्चधा, तद्यथा-'श्रमणे' श्रमणविषयः ब्राह्मणे कृपणेऽतिथौ शुनि च पञ्चमो भवति, तत्र वनीपक इति तमलयगि- वनिरित्ययं धातुर्याचने, 'वनु याचने ' इति वचनात्, ततो वनुते-पायो दायकसम्मतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते रीयावृत्तिः ॥ इति 'वणिउत्तिः वनीपकः, औणादिक ईपकप्रत्ययः । सम्पति प्रकारान्तरेण वनीपकशब्दनिरुक्तिं प्रतिपादयति॥१३०॥
मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समणेसु माहणेसु य किविणाऽतिहिसाणभत्तेसु ॥ ४४४ ॥
व्याख्या-मृता' पञ्चत्वमुपगता माता यस्य वत्सकस्य-तर्णकस्य तमिव गोपालकोऽन्यस्यां गीतिशेषः, 'आहारादिलोभेन भक्तपात्रवस्तुलुब्धतया श्रमणेषु ब्राह्मणेषु कृपणातिथिश्वभक्तेषु वनति-भक्तमात्मानं दर्शयतीति वनीपका, पूर्ववदौणादिक ईपकप्रत्ययः । सम्प्रति यावन्तः श्रमणशब्दवाच्यास्तावतो दर्शयित्वा तेषु वनीपकत्वं यथा भवति तथा दर्शयतिनिग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज को अप्पं ? ॥४४५ ॥
व्याख्या-'निर्ग्रन्थाः' साघवः 'शाक्याः' मायासूनवीयाः, 'तापसाः' वनवासिनः पाखण्डिनः 'गैरुकाः' गेरुकरञ्जितवाससः परिव्राजकाः 'आजीवकाः' गोशालकशिष्या इति 'पञ्चधा' पञ्चपकाराः श्रमणा भवन्ति, एतेषां च यथायोग गृहिगृहेषु समागतानां 'परिवेषणे' भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः 'लोभेन' आहारादिलुब्बतया वनति-शाक्यादिभक्तमात्मानं दर्शयति, तद्भक्तगृहिणः पुरत इति सामर्थ्यगम्यम् । इह प्रायः शाक्या गैरुका वा गृहिगृहेषु मुञ्जते ततस्तान् भुञ्जानानधिकृत्य यथा साधुर्वनीपकत्वं कुरुते तथा दर्शयति
100000०००००००००००००००००००००००००००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org