SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ यः प्रवेशस्तदादि, आदिशब्दाद्रीवाग्रहादिपरिग्रहः, तथा 'देवकुलदर्शनं' युद्धप्रवेशे चामुण्डापतिमाप्रणमनं, 'भापोपनयनं' प्रतिमल्लाहानाय तथा तथा वचनढौकनं दण्डादिका' धरणिपातच्छुप्ताङ्कयुद्धप्रभृतयः, एतान् गणटहे प्रविष्टः सन् तत्पुत्रस्य प्रशंसति, तथा च सति तेन ज्ञायते यथैषोऽपि साधुर्मल इत्यादि प्राग्वत् । कर्मशिल्पयोराजीवनमाह __ कत्तरि पओअणावेक्खवत्थु बहुवित्थरेसु एमेव । कम्मेसु य सिप्पेसु य सम्ममसम्मेसु सूईयरा ॥ ४४२ ॥ व्याख्या-कर्मसु शिल्पेषु चैवमेव-कुलादाविवोपजीवनं वक्तव्यं, कथम् ? इत्याह-'करि' कर्मणां शिल्पानां च विधायके, उपलक्षणमेतत् विधापके च वणिजादौ, सप्तमी चात्र षष्ठयर्थे, ततोऽयमर्थः-कर्तुः कारापकस्य च 'प्रयोजनापेक्षेषु ' भूमिविलिखनादिषु प्रयोजननिमित्तं धियमाणेषु हलादिषु वस्तुषु, सूत्रे चात्र विभक्तिलोप आर्षत्वात् , 'बहुविस्तरेषु' प्रभूतेषु नानाविधेषु च, सम्यगसम्यगिति वा मोच्यमानेषु-शोभनान्यशोभनानीति वा कथ्यमानेषु यदात्मनि कर्माण शिल्पे वा कौशलज्ञापनं तत्तयोरुपजीवनम् , इयमत्र भावनाप्रविष्टः सन् साधुः कृष्यादेः कर्तुः कारापकस्य वा तत्प्रयोजनापेक्षणीयानि नानारूपाणि हलादीनि बहूनि वस्तूनि तानि दृष्ट्वाऽऽत्मनः कर्मणि शिल्पे वा कौशलज्ञापनाय शोभनान्यशोभनानीति वा यक्ति तत्कर्मशिल्पयोराजीवनम् । अनेन च प्रकारेण कौशलज्ञापन सूचास्फुटवचनेन च कौशलकथनमसूचा । उक्तमाजीवद्वारम्, अथ बनीपकद्वारं वक्तव्यं, तत्र प्रथमतो वनीपकस्य भेदान्निरुक्तिं च शब्दस्याह समणे माहणि किवणे अतिही साणे य होइ पंचमए । वणि जायणत्ति वणिओ पायप्पाणं वणेइत्ति ॥ ४४३ ॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy