________________
एरिसयं चिय दुक्खं भेसज्जेण अमुगेण पउणं मे । सहसुप्पन्नं व रुयं वारेमो अट्ठमाईहिं ॥ ४५८ ॥
व्याख्या-एतादृशमेव 'दुःखं ' दुःखकारणभूतं गड्डाद्यमुकेन भेषजेन 'प्रगुणं' नष्टवेदनमभूत, तथा वयं 'सहसोत्पन्नाम् । अकस्मादुत्पन्नां रुजमष्टमादिभिर्वारयामः । 'त्थोपन्नं रोगं अट्टमेण निवारए' इत्यादि परममुनिवचनप्रामाण्यात् , तस्माद्भवताऽपि तथा कर्त्तव्यमिति भावः । तृतीयां चिकित्सां विपश्चयितुमाहसंसोधण संसमणं नियाणपरिवज्जणं च जं तत्थ । आगंतु धाउखोभे य आमए कुणइ किरियं तु ॥ ४५९॥
व्याख्या-आगन्तुके धातुक्षोभे च 'सूचनात्सूत्र'मितिकृत्वा धातुक्षोभजे चाऽऽपये-रोगे समुत्पन्ने सति तत्र यत्क्रियां करोति, तद्यथा-संशोधनं हरीतक्यादिदानेन पित्तायुपशमनं, तथा 'निदानपरिवर्ननं ' रोगकारणपरिवर्जनं च, एसा तृतीया चिकित्सा । अत्र दोषानाह_अरसंजमजोगाणं पसंधणं कायघाय अयगोलो । दुबलवग्याहरणं अच्चुदये गिण्हणुड्डाहे ॥ ४६॥ .
व्याख्या-'असंयमयोगानां ' सावधव्यापाराणां 'पसन्धन' सातत्येन प्रवर्तनमिदं चिकित्साकरणं यतो गृहस्थस्तप्तायोगोलकसमानः ततस्तेन नीरोगीभूतेन ये कायघाता यावजीवं प्रवर्त्यन्ते ते सर्वेऽपि साधुचिकित्साप्रवर्त्तिता इति चिकित्साकरणं सात-| त्येनासंयमयोगानां निबन्धनम् । तथा चात्र दुर्बलव्याघ्रदृष्टान्तो-यथाऽटयामान्थ्येन भक्ष्यमप्राप्नुवन् दुर्वलो व्याघ्रः केनाप्याध्यापनय -
१ तत्रोल रोगमष्टमेन निवारये ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org