________________
जाईकले विभासा गणो उ मल्लाइ कम्म किसिमाई । तुलाइ सिप्पऽणावज्जगं च कंमेयराऽऽवज्जं ॥ ४३८॥
व्याख्या-जातिकुले 'विभाषा' विविधं भाषणं कार्य, तचैवं-जाति:-ब्राह्मणादिका कुलम्-उग्रादि , अथवा मातुः समत्था जातिः पितृसमुत्थं कुलं । 'गणः " मल्लादिवृन्द, कर्म-कृष्यादि, 'शिल्पं ' तूर्णादि-तूर्णनसीवनप्रभृति, अथवा 'अनावकम् । अप्रीत्यु
त्पादकं कर्म इतरत्तु 'आवर्जकं' प्रीत्युत्पादकं शिल्पम् , अन्ये त्वाहुः-अनाचार्योपदिष्टं कर्म आचार्योपदिष्टं तु शिल्पमिति । तत्र यथा 18 साधुः सूचया स्वजातिप्रकटनाजातिमुपजीवति तथा दर्शयति
होमायवितहकरणे नज्जइ जह सोत्तियस्स पुत्तोत्ति । वसिओ वेस गुरुकुले आयरियगुणे व सएइ ॥ ४३९ ॥
व्याख्या-साधुर्भिक्षार्थमटन् ब्राह्मणगृहे प्रविष्टः सँस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्वा तदभिमुखं प्रति स्वजातिप्रकटनाय जल्पति-होमादिक्रियाणामवितथकरणे एष तव पुत्रो ज्ञायते-यथा श्रोत्रियस्य पुत्र इति, यदिवोषित एष सम्यग्गुरुकुले इति ज्ञायते, अथवा सूचयत्येष तव पुत्र आत्मन आचार्यगुणान्, ततो नियमादेष महानाचार्यों भविष्यतीति । तत एवमुक्ते स ब्राह्मणो वदतिसाधो ! त्वमवश्यं ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साधुश्च मौनेनावतिष्ठते, एतच्च सूचया स्वजातिमकटनम् । अत्र चानेके | दोषाः, तथाहि-यदि स ब्राह्मणो भद्रकस्तर्हि स्वजातिपक्षपाततः प्रभूतमाहारादिकं दापयति, तदपि च जात्युपजीवननिमित्तमिति भगवता प्रतिषिद्धम् , अथ प्रान्तस्तहि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तमिति विचिन्त्य स्वगृहनिष्कासनादि करोति, असूचया तु जात्याजीवनं पृष्टोऽपृष्टो वाऽऽहारार्थं स्वजाति प्रकटयति-यथाऽहं ब्राह्मण इति, तत्राप्यनन्तरोक्ता एव दोषाः, क्षत्रियादिजातिष्वपि, एवं कुलादिष्वपि भावनीयम् । एतदेव किञ्चिद्वयक्तीकुर्वन्नाह
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org