________________
नियमा तिकालविसएऽवि निमित्ते छविहे भवे दोसा । सज्जं तु वट्टमाणे आउभए तत्थिमं नायं ॥ ४३५ ॥
व्याख्या-'त्रिकालविषयेऽपि अतीतविषये वर्तमानविषये भविष्यद्विषये च प्रत्येकं 'पदविधे'लाभालाभसुखदःखजीवितमरणरूपे निमित्ते नियमादोषा भवन्ति, ते च दोषा 'आउभए 'त्ति केचिदात्मविघातिनस्तस्य साधोारणादिहेतव इत्यर्थः, केचिदुभयविघातिनः ये साधोः शेषस्य च जीवस्य घातहेतवः, उपलक्षणमेतत्, केचित्केवलपरविघातिनश्च, तत्र 'वर्तमाने' वर्तमानकालविषये नि|मित्ते प्रयुज्यमाने 'सद्यः । तत्क्षणं परविघातकारिणीदं-वक्ष्यमाणं ज्ञातमुदाहरणं । तदेवाह
आकंपिया निमित्तेण भोइणी भोइए चिरगयमि । पव्वभणिए कहं ते आगउ ? रुट्ठो य वडवाए ॥ ४३६॥ |
व्याख्या-कोऽपि ग्रामनायको निजभार्या पश्चान्मुक्त्वा दिग्यात्रां गतः, सा च तद्भार्या केनापि साधुना निमित्तेनावर्जिता, ग्रामनायकेन च दूरगतेन चिन्तितं, यथाऽहमेकाकी प्रच्छन्नो गत्वा निजभार्यायाश्चेष्टितमवेक्षिष्ये, सा किं दुःशीला सुशीला ? इति । अथ च तद्भार्यया साधोः सकाशात्तदागमनमवगत्य परिजनः सर्वोऽपि तत्सम्मुखं प्रेषितः, पृष्टश्च भोजकेन परिजनो-यथा भोः !| कथं मदागमनमज्ञायि? इति, स पाह-भोगिन्या कथितमिति, साधुश्च तदानी भोजकगृहे समागतो वर्तते, भोगिन्याश्च प्रत्ययपुरस्सरं नायकेन सह यज्जल्पितं यच्चेष्टितं यो वाऽनया स्वमो दृष्टो यद्वा शरीरे मषतिलकादि तत्सर्वं कथयन्नास्ते, अत्रान्तरे च समागतो भोजकः, कृतश्च तया यथोचित उपचारः, पृष्टा च तेन-कथं त्वया ममागमनमवजग्मे ? इति, साऽवादीत-साधुनिमित्तात्, ततस्तेन भणितम् , अस्ति कोऽप्यन्योऽपि प्रत्ययः ?, सा ततोऽवादीत-युष्माभिः सह पूर्व जल्पितं चेष्टितं च यो वा मया स्वमो दृष्टः यश्च मम गुह्यप्रदेशे|
dain Education International
For Personal & Private Use Only
www.janelibrary.org