________________
रीयावृत्तिः
उत्पादनादोषेषु २ दूत्यां धनदत्तकथा
पिण्डनियु- जामाइपुत्तपइमारणं च केण कहियंति जणवाओ । जामाइपुत्तपइमारएण खतेण मे सिद्धं ॥ ४३४ ॥ क्तेर्मलयगि
व्याख्या विस्तीर्णो नाम ग्रामः, तस्योपकण्ठे गोकुलाभिधो ग्रामः, विस्तीर्णग्रामे च धनदत्तो नाम कुटुम्बी, तस्य भार्या प्रिय
मतिः, तस्या दुहिता देवकी, सा च तस्मिन्नेव ग्रामे सुंदरेण परिणीता, तस्याः पुत्रो बलिष्ठो, दुहिता रेवतिः, सा च गोकुलग्रामे सङ्गमेन ॥१२७॥
परिणिन्ये, प्रियमतिश्चायुःक्षयात् पश्चत्वमुपगता, धनदत्तोऽपि संसारभयभीतः प्रव्रज्यामग्रहीद्, गुरुभिश्च सार्द्ध विहरति । ततः कालान्तरे पुनरपि यथाविहारक्रमं तत्रैव ग्रामे समागतो निजदुहितुर्देवक्या वसतावस्थात्, तदानीं च तयोर्द्वयोरपि ग्रामयोः परस्परं वैरं वर्तते, विस्तीर्णग्रामवासिना च लोकेन गोकुलग्रामस्योपरि घाटी सृत्रिता, धनदत्तश्च साधुर्गोकुलग्रामे भिक्षायै चलितवान् , ततो देवक्या दुहित्रा ||शय्यातर्या भणितो-यथा हे पितः! त्वं गोकुलग्रामे यास्यसि, ततो निजदौहिच्या रेवत्याः कथय यथा तव जनन्या सन्दिष्टम्-अयं : ग्रामस्तव ग्रामस्योपरि छन्नधाट्या समागमिष्यति ततः सकलमपि स्वकीयमेकान्ते स्थापयरिति, ततः साधुना तथैव तस्याः कथितं, तया च निजभर्तुः, तेन च सकलग्रामस्य, ततः सर्वोऽपि ग्रामः सन्नद्धबद्धकवचोऽभवत्, आगतश्च द्वितीयदिने धाट्या विस्तीर्णग्रामो, जातं परस्परं महयुद्धं, तत्र सुन्दरो बलिष्ठश्च धाटया सह गतौ, सङ्गमश्च गोकुलग्रामे वसति, तत्र त्रयोऽपि च युद्धे पञ्चत्वमुपजग्मुः, देवकी || च पतिपुत्रजामातृमरणमाकर्ण्य विलपितुं प्रावर्त्तत, लोकश्च तन्निवारणाय समागतोऽवादीत-यदि गोकुलग्रामो धाटीमागच्छन्तीं नाज्ञास्यत् | ततोऽसन्नद्धो नायोत्स्यत, तथा च न तव पत्यादयो म्रियेरन्, ततः केन दुरात्मना गोकुलग्रामो ज्ञापितः?, एतच्च लोकस्य वचः श्रुत्वा । सञ्जातकोपा सैवमवादीत-मयाऽजानत्या पित्रा दुहितुः सन्दिष्टं, ततस्तेन साधुवेषविडम्बकेन मत्पतिपुत्रजामातृमारकेण पित्रा ज्ञापितः, ततः स लोके स्थाने स्थाने धिक्कारं लभते । प्रवचनस्य च मालिन्यमुदपादि । सूत्रं सुगमम् , उक्तं दूतीद्वारम्, अथ निमित्तद्वारमाह
॥१२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org