________________
पिण्डनियुक्तेर्मलयगिरीयावृत्तिः
धात्रीदोपे संगमसूरिदत्तोदा०
॥१२६॥
व्याख्या-मुगम, नवरं 'पूयणचेडे'त्ति पूतना-दुष्टव्यन्तरी तया गृहीते 'चेटे' बालके रोदिति, 'विकटना : आलोचनम् । उक्त धात्रीद्वारम् , अथ दूतीद्वारमाह- .
सग्गाम परग्गामे दुविहा दूई उ होइ नायव्वा । सा वा सो वा भणई भणइ व तं छन्नवयणेणं ॥ ४२८ ॥ ____ व्याख्या-इह दूती द्विधा, तद्यथा-स्वग्रामे परग्रामे च, तत्र यस्मिन् ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देशककथिका तर्हि सा स्वग्रामदूती, या तु परग्रामे गत्वा सन्देशं कथयति सा परग्रामदूती, एकैकाऽपि च द्विधा, तद्यथा-प्रकटा छन्ना च, तत्र सा तव माता स वा तव पिता एवं भणति-सन्देशं कथयति, सा प्रकटा, या तु तं सन्देश छन्नवचनेन कथयति सा छन्ना । एनमेवार्थ सविशेष व्यक्तीकरोतिएक्कावि य दुविहा पागड छन्ना य छन्न दुविहा उ । लोगुत्तरि तत्थेगा बीया पुण उभयपक्खेऽवि ॥ ४२९ ॥
व्याख्या-इह दूतीत्वसमाचरणमपि दूती, साऽपि चैकैका स्वग्रामविषया परग्रामविषया च द्विधा, तद्यथा-प्रकटा छन्ना च, तत्र छन्ना पुनरपि द्विधा, तद्यथा-एका 'लोकोत्तरे' लोकोत्तर एव, द्वितीयसङ्काटकसाधारपि गुप्ता इत्यर्थः । द्वितीया पुनरुभयपक्षेऽपि , लोके लोकोत्तरे च, पार्श्ववर्तिनो जनस्य सङ्घाटकसत्कद्वितीयसाधोरपि च गुप्तेति भावः । स्वग्रामपरग्रामविषयां प्रकटां दूतीमाहभिक्खाई वच्चंते अप्पाहणि नेइ खंतियाईणं । सा ते अमुगं माया सो व पिया ते इमं भणइ ॥ ४३०॥ . . व्याख्या-'भिक्षादौ ' भिक्षादिनिमित्तं चेत्यर्थः, व्रजस्तस्यैव ग्रामस्य सत्के पाटकान्तरे परग्रामे वा 'खंतियाईणं' जनन्यादी
॥१२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org