SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ बालकः, जातः प्रहष्टो गृहनायकः, ततो दापितास्तेन भूयांसो मोदकाः, ताँश्च ग्राहितो दत्तः सूरिभिः, अजायत प्रहृष्टः, ततो मुत्कलितो वसती, ततः सूरयः स्वशरीरनिःस्पृहा यथाऽऽगमविधि प्रान्तकुलेष्वटित्वा वसतावुपाजग्मुः, प्रतिक्रमणवेलायां च दत्तो भणितो-वत्स! धात्रीपिण्डं चिकित्सापिण्डं चालोचय, स पाह-युष्माभिरेव सहाहं विहृतः, ततः कथं मे धात्रीपिण्डादिपरिभोगः, सूरयोऽवोचन्लघुबालकक्रीडनेन क्रीडनधात्रीपिण्डः, चप्पुटिकाकरणतः पूतनातो मोचितत्वाचिकित्सापिण्डः, ततः स प्रदुष्टः स्वचेतसि चिन्तयतिस्वयं भावतोऽपि मासकल्पं न विदधाति एतादृशं च पिण्ड दिने दिने गृह्णाति मां पुनरेकदिनगृहीतमप्यालोचयति, तत एवं विचिन्त्य प्रद्वेषतो वसतेर्बहिः स्थितः, ततस्तस्य सूरिविषयप्रदेषदर्शनतः कुपितया सूरिगुणावर्जितया देवतया तस्य शिक्षार्थ वसतावन्धकारं सवातं च वर्ष विकुर्वित, ततः स भयभीतः सूरीनाह-भगवन् ! कुत्राई ब्रजामि?, ततस्तैः क्षीरोदजलवदतिनिर्मलहृदयैरभाणि-वस्स ! एहि वसतौ प्रविशेति, दत्त आह-भगवन् ! न पश्याम्यन्धकारेण द्वारमिति, ततोऽनुकम्पया श्लेष्मणा सूरिभिर्निजाङ्गुलिरुद्धृत्योद्धीकृता, सा च दीपशिखेव ज्वलितुं प्रवृत्ता, ततः स दुरात्मा दत्तोऽचिन्तयत्-अहो ! एतस्य परिग्रहे वहिरप्यस्ति, एवं च चिन्तयन् देवतया निभर्तिसतो हा ! दुष्टशिष्याधम ! एतादृशानपि सर्वगुणरत्नाकरान् सूरीनन्यथा चिन्तयसि, ततो मोदकलाभादिको वृत्तान्तः सर्वोऽपि यथावस्थितो देवतया कथयामासे, जाता तस्य भावतः प्रत्यावृत्तिः, क्षामिताः सूरयः, आलोचितं सम्यक् । सूत्रं सुगम, नवरं 'सादिवं देवताप्रातिहार्यम् । एतदेव गाथाद्वयेन भाष्यकृविटणोति- . ओमे संगमथेरा गच्छ विसज्जंति जंघबलहीणा । नवभाग खेत्त वसही दत्तस्स य आगमो ताहे ॥ (भा० ४०) उवसयबाहिं ठाणं अन्नाउंछेण संकिलेसो य । पूयणचेडे मा रुय पडिलाभण वियडणा सम्मं ॥ (भा०४१) Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy