________________
पिण्डनियुक्तेमलयगि- रीयावृत्तिः
॥१२४॥
कारणं, क्वापीश्वरगृहे काऽपि मज्जनधात्री धात्रीत्वात् स्फेटिता, साधुश्च तस्या गृहं भिक्षार्थ प्रविष्टा, तां च धात्रीत्वात्परिभ्रंशेन विषण्णां उत्पादनादृष्ट्वा पूर्वप्रकारेण च पृष्ट्वा कृत्वा च प्रतिज्ञामीश्वरगृहे च. गत्वाऽभिनवमज्जनधात्रीदोषप्रकट नायाह-'जलभीरु' इत्यादि, अतिशये- दोषेषु धानोत्प्लावने प्रभूतजलप्लावनेन गुप्यमानो बालो गुरुरपि जातो नद्यादौ जलप्रवेशे जलभीरुर्भवति, तथा निरन्तरजलेनोत्प्लाव्यमानः ' अब
त्रीदोषः लनयना' अबलदृष्टिर्जायते रक्ताक्षश्च, यदि पुनः सर्वथाऽपि न मज्ज्यते न शरीरं बलमादत्ते नापि कान्तिभाग दृष्टया चाबलो जायते, एषा च धात्री बालमतिजलोत्प्लावनेन मज्जयति ततो जलभीरुतादयो दोषा बालस्य भविष्यन्ति, तस्मान्नैषा मज्जनधात्री युक्ता, एवमुक्ते सति । तामभिनवस्थापितां मजनधात्री गृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते, तथा च सति त एव प्राक्तना 'उच्चट्टिया पओसं इत्यादिरूपा दोषा वाच्याः, एवमुत्तरत्रापि प्रतिगाथं भावना भावनीया । अथ मन्जनधात्री कथंभूतं बालं कृत्वा मण्डनधान्याः सम
यति?, तत आह___ अभंगिय संवाहिय उव्वट्टिय मज्जियं च तो बालं। उवणेइ मज्जधाई मंडणधाईऍ सुइदेहं ॥ ४२३ ॥
व्याख्या-नानधात्री प्रथमतः स्नेहेनाभ्यङ्गितं ततो हस्ताभ्यां सम्बाधितं तदनन्तरं पिष्टिकादिनोद्वर्तितं ततो मज्जितं-शुचीभूतदेहं बालं कृत्वा मण्डनधान्याः समर्पयति ॥ उक्ता मन्जनधात्री, सम्पति मण्डनधात्रीत्वस्य कारणं करणं च तथाऽभिनवस्थापिताया धाच्या दोषपकटनं च यथा साधुः कुरुते तथा दर्शयति
उसआइएहिं मंडेहि ताव णं अहव णं विभूसेमि । हत्थिच्चगा व पाए कया गलिच्चा व पाए वा ॥ ४२४॥ व्याख्या-'इषुकः' इषुकाकारमाभरणम् अन्ये तिलकमित्याहुः, आदिशब्दात् क्षुरिकाकारायाभरणपरिग्रहः, इह भिक्षार्थ प्रविष्टः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org