SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 白白宫冷宫9999令哈哈哈哈哈哈999999999999白白白。 सन् श्राद्धिकाचित्तावर्जनार्थ बालकमनाभरणमवलोक्य तज्जननीमेवमाह-इषुकादिभिः आभरणविशेषैस्तावदेनं बालक 'मण्डय' विभषय, एतत् मण्डनधात्रीत्वस्य कारणम् । अथवा यदि पुनस्त्वं न प्रपारयास ताहं विभूषयामि, एतत् स्वयं मण्डनधात्रीत्वस्य करणं । पूर्वधात्रीस्थानीयाभिनवस्थापिताया मण्डनधाच्या दोषानाह-'हत्थिच्चगा' हस्तयोग्यान्याभरणानि पादे कृतानि, अथवा 'गलिचा' गलसत्कानि आभरणानि पादे कृतानि तस्मान्नेयं मण्डनधात्री मण्डनेऽभिज्ञा, ततस्तस्या मण्डनधात्रीत्वाच्यावनमित्यादि पूर्ववद्भावनीयम् । उक्ता मण्डनधात्री, सम्पत्यभिनवस्थापितायाः क्रीडनधाच्या दोषप्रकटनं क्रीडनधात्रीत्वस्य करणं कारणं च यथा विदधाति साधुस्तथाऽऽह____ ढङ्करसर छुन्नमुहो मउयगिरो मउयमम्मणुल्लावो । उल्लावणगाईहि व करेइ कारेइ वा किडं ॥ ४२५ ॥ व्याख्या-एषाऽभिनवस्थापिता क्रीडनधात्री ढङ्करस्वरा, ततस्तस्याः स्वरमाकर्णयन् बालो 'छुन्नमुखः' क्लीबमुखो भवति, अथवा मृदुगीरेपा ततोऽनया रम्यमाणो बालो मृदुगीर्भवति, यदिवा ' मृदुमन्मनोल्लाप:' अव्यक्तवाक्, तस्मान्नैपा शोभना, किन्तु चिरन्तन्येवेत्यादि मागिव, तथा भिक्षार्थ प्रविष्टः श्राद्धिकाचित्तावर्जनार्थ बालमुल्लापनादिभिः स्वयं क्रीडां कारयति । उक्ता क्रीडनधात्री, सम्पत्यधाच्या अभिनवस्थापितायाः स्फेटनाय सामान्यतो दोषप्रकटनं यथा साधुः करोति तथा दर्शयति थुल्ली' वियडपाओ भग्गकडीसुक्कडाए दुक्खं च । निम्मंसकक्खडकरहिं भीरुओ होइ घेप्पते ॥ ४२६॥ व्याख्या-इह 'स्थूलया' मांसलया धाच्या कट्यां ध्रियमाणो बालः 'विकटपादः' परस्परबदन्तरालपादो भवति, भग्नकटया शुष्ककटथा वा कटयां ध्रियमाणो दुःखं तिष्ठति, निर्मीसकर्कशकराभ्यां च ध्रियमाणो बालो भीरुर्भवति, एषा चाभिनवस्थापिता धात्री | dan Education international For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy