SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 20000000000000000000000000000000 स्तनापरपर्यायौ किं कृपराकारबद्दीघl यद्वाऽतिशयेन स्थूलौ ?, शरीरेऽपि तस्याः किं स्थूलत्वं किं वा कृशत्वं ?, तत एवं पृष्टा तत्रेश्वरगृहे गतः सन् 'तत्समक्षं' गृहस्वाम्यादिसमक्षं तं बालकं दृष्ट्वा भणति । किं तद्भणति ? इत्यत आह| अहणुढ़ियं व अणविक्खियं व इणमं कुलं तु मन्नामि । पुन्नेहिं जहिताए(जदिच्छाए) तरई बालेण सूएमो॥४१७॥ व्याख्या-अहमिदं मन्ये-' इदं ' युष्मदीयं कुलमधुनोत्थितं-सम्मत्येवेश्वरीभूतं, यदि पुनः परम्परागतलक्ष्मीकमिदमभविष्यत तहि कथं न परम्परया धात्रीलक्षणे कुशलमपि अभविष्यत् ? इति भावः, यद्वा 'अनवेक्षितम् ' अपरिभावितं महत्तरपुरुषैः, तत एव, या , वा सा वा धात्री ध्रियते, एतच्च बालेनासङ्गतधात्रीस्तनपानविच्छायेन 'सूचयामः' लक्षयामः, तत एवंभूतधात्रीयुक्तमपीदं कुलं 'तरति क्षेमेण वर्तते तत् मन्ये पुण्यैः प्राक्तनजन्मकृतैः यदिवा यदृच्छया-एवमेव ॥ तत एवमुक्ते सति ससम्भ्रमं बालकस्य जननी जनको वा साधु प्रत्याह-भगवन् ! के धाच्या दोषाः?, ततः साधुर्धात्रीदोषान् कथयतिथेरी दुब्बलखीरा चिमिढो पेल्लियमहो अइथणीए । तणुई उ मंदखीरा कुप्परथणियाएँ १८॥ व्याख्या-या किल धात्री स्थविरा सा ' अबलक्षीरा' अबलस्तन्या इति, ततो बालो न बलं गृहाति, या त्वतिस्तनी तस्याः स्तन्यं पिबन् स्तनेन ' प्रेरितमुखः ' चम्पितमुखावयवोष्ठनासिकश्चिपिटनासिको भवति, या तु शरीरेण कृशा सा ' मन्दक्षीरा ' अल्प-8 क्षीरा, ततः परिपूर्ण तस्याः स्तन्यं बालो न प्राप्नोति, तदभावाच सीदति , तथा या कूपरस्तनी तस्याः स्तन्यं पिबन् बालः सूचीमुखो भवति, स हि मुखं दीर्घतया प्रसार्य तस्याः स्तन्यं पिवति, ततस्तथारूपाभ्यासतस्तस्य मुखं सूच्याकारं भवति, उक्तं च-"निस्थामा स्थ-18 Jain Education inter nal For Personal & Private Use Only witww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy