SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयगिरीयावृत्तिः ॥१२॥ 00000000000000000000000000000000 अहिगरण भद्दपंता कम्मुदय गिलाणए य उड्डाहो । चडुकारी य अवन्नो नियगो अन्नं च णं संके ॥ ४१४ ॥ : उत्पादना दोषेषु धाव्याख्या-यदि बालकजननी भंद्रा-धर्माभिमुखी भवति तहि प्राक्तनैः साधुवचनैरावर्जिता सती अधिकरणम्-आधाकर्मादि त्रीदोषः करोति, अथ प्रान्ता-धर्मानभिमुखी तर्हि प्रद्वेष यातीति शेषः, तथा यदि स्वकर्मोदयात्कथमपि स बालो ग्लानो भवति तहि · उड्डाहः। प्रवचनमालिन्यं, यथा साधुना तदानीमालपितः क्षीरं वा पायितोऽन्यत्र वा नीत्वा कस्या अपि स्तन्यं पायितस्तेन ग्लानो जातः, तथाऽतीव चाटुकारीति लोके 'अवर्णः' अश्लाघा, तथा 'निजकः' भर्ता 'अन्यद्वा ' मैथुनादिकं 'णम्' इति वाक्यालङ्करे तथारूपसाधुवचनश्रवणतः 'शङ्कते' सम्भावयति । अथवा प्रकारान्तरेण धात्रीकरणे यो दोषस्तं दर्शयति अयमवरो उ विकप्पो भिक्खायरि सडि अडिई पुच्छा । दुक्खसहाय विभासा हियं मे धाइत्तणं अज्ज ॥ ४१५॥ वयगंडथल्लतणुयत्तणेहिं तं पुच्छिउं अयाणंतो । तत्थ गओ तस्समक्खं भणाइ तं पासिउं बालं ॥ ४१६ ॥ व्याख्या-अयमपरो विकल्पो धात्रीकरणे, तमेवाह-भिक्षाचर्याप्रविष्टेन साधुना काचित् श्राद्धिका 'अधृतिः' धृविरहिता दृष्टा, ततः पृष्टा यथा-किमद्य त्वं सशोका दृश्यसे?, तत एवमुक्ता सती सा पाह-यो दुःखसहायो भवति तस्मै दुःखं निवेद्यते, दुःखसहायश्च स उच्यते यो दुःखप्रतीकारसमर्थः, ततः साधुराह-अहं दुःखसहायस्तस्मान्निवेद्यतां मे दुःखं, ततः सा पाह-अय मे-मम धात्रीत्वममुकष्मि- ॥१२२॥ नीश्वरगृहे 'हृतं' स्फेटितं ततोऽहं विषण्णा, ततः साधुराह-मा त्वं विषादं कार्षीः अहमवश्यं त्वां तत्राचिरेण धात्री स्थापयामीति प्रतिज्ञा विधाय तस्याः पार्थेऽभिनवस्थापिताया धाच्या वयःप्रभृतिकमजानानः पृच्छति, यथा किं तस्या वयः-तारुण्यं परिणतं का?, गण्डावपि For Personal & Private Use Only w.jainelibrary.org Jain Education International
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy