SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ व्याख्या-धारयति बालकमिति धात्री, यद्वा धीयते भाटकमदानेन 'ध्रि(धी)यते ' पोष्यते इति धात्री, अथवा 'धयन्ति' पिबन्ति । बालकास्तामिति धात्री, 'धात्री'ति निपातनसूत्रादूपनिष्पत्तिः, ताश्च धान्यः 'पुरा' पूर्वस्मिन् काले 'यथाविभवं' विभवानुसारेण क्षीरादिविषया बालकयोग्याः पञ्च आसन् , सम्पति तथारूपविभवाभावेन ता न दृश्यन्ते । तत्र यथा स्तन्यदापनधात्रीत्वं साधुः करोति तथा दर्शयति। खीराहारो रोवइ मज्झ कयासाय देहि णं पिज्जे । पच्छा व मज्झ दाही अलं व भुज्जो व एहामि ॥ ४१२॥ व्याख्या-पूर्वपरिचिते गृहे साधुभिक्षार्थ प्रविष्टः सन् रुदन्तं बालकं दृष्ट्वा तज्जननीमेवमाह-एष बालोऽद्यापि क्षीराहारस्ततः क्षीरमन्तरेणावसीदन् 'रोदिति' आरटति, तस्मान्मह्यं कृताशाय-विहितभिक्षालाभमनोरथाय झटित्येव भिक्षां देहि, पश्चात् 'णम् ' एनं बालकं 'पेजे' पायय स्तन्यं, यद्वा प्रथमत एनं स्तन्यं पायय पश्चान्मह्यं भिक्षां देहि, यदिवाऽलं मे सम्पति भिक्षया पायय स्तन्य बालकमहं पुनर्भूयोऽपि भिक्षार्थमेष्यामि । तद्यथा__मइमं अरोगि दीहाउओ य होइ अविमाणिओ बालो । दुल्लभयं खु सुयमुहं पिज्जाहि अहं व से देमि॥ व्याख्या-'अविमानितः' अनपमानितो बालो मतिमानरोगी दीर्घायुश्च भवति, विमानितः पुनर्विपरीतः । तथा दुर्लभं खलु लोके 'सुतमुखं ' पुत्रमुखदर्शनं, तस्मात्सर्वाण्यप्यन्यानि कर्माणि मुक्त्वा त्वमेनं बालकं स्तन्यं पायय, यदि त्वं न पाययसि तरहं वा ददाम्यस्मै क्षीरं बालकाय, अन्यया वा स्तन्यं पाययामि । अत्र 'अहं वा से देमि' इत्यनेन स्वयंकरण(णेन)धात्रीत्वं साधोर्दर्शितं, शेषपादः कारणेन । अत्र दोषमाइ For Personal & Private Use Only M anelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy