SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- तीतानागयसंपया ॥२॥" निमित्तहेतुकं च यद् ज्ञानं तदप्युपचारानिमित्तं तदेवेहाधिकृतं, तथा चाङ्गादिनिमित्तहेतुकं ज्ञानमेव प्रयु- उत्पादनातेर्मलयगि- जानो यतिर्दोषवानग्रे वक्ष्यते, 'आजीव:' आजीविका 'वनीपक:' भिक्षाचरस्तस्येव यत्समाचरणं तदपि वनीपकः, शब्दव्युत्पत्तिं च दोषेषु धारीयावृतिः स्वयमेवाग्रे वक्ष्यति, 'चिकित्सा' रोगप्रतिकारः, क्रोधमानमायालोभाः प्रतीताः, 'पूर्वसंस्तवः' मात्रादिकल्पनया परिचयकरणं, 'पश्चा- त्रीदोषः संस्तवः' श्ववादिकल्पनया परिचयकरणं, 'विद्या' स्त्रीरूपदेवताधिष्ठिता ससाधना वाऽक्षरविशेषपद्धतिः, सैव पुरुषदेवताधिष्ठिता ॥१२॥ असाधना वा मन्त्रः, 'चूर्णः सौभाग्यादिजनको द्रव्यक्षोदः, 'योगः' आकाशगमनादिफलो द्रव्यसलगतः, एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडशो दोषो 'मूलकर्म' वशीकरणम् । इह धाच्या पिण्ड:-धात्रीपिण्डः, किमुक्तं भवति ?-धात्रीत्वस्य करणेन कारणेन च य . उत्पाद्यते पिण्डः स धात्रीपिण्डः, यस्तु दूतीत्वस्य करणेनोत्पाद्यते स दूतीपिण्डः, एवं निमित्तादिष्वपि भावनीयं । तत्र प्रथमतो धात्रीपिण्डं व्याचिख्यासुर्धात्रीभेदानाह खीरे य मजणे मंडणे य कीलावणंकधाई य । एक्कक्कावि य दुविहा करणे कारावणे चेव ॥ ४१० ॥ व्याख्या-क्षीरे' क्षीरविषये एका धात्री या स्तन्यं पाययति, द्वितीया मज्जनविषया, तृतीया मण्डनविषया, चतुर्थी क्रीडनधात्री, पञ्चम्यधात्री । एकैकापि च द्विधा, तद्यथा-स्वयं करणे कारणे च, तथाहि-या स्वयं स्तन्यं पाययति बालकं सा स्वयंकरणे काक्षीरधात्री, या त्वन्यया पाययति सा कारणे, एवं मज्जनादिधात्र्योऽपि भावनीयाः। सम्पति धात्रीशब्दस्य व्युत्पत्तिमाह धारेइ धीयए वा धयंति वा तमिति तेण धाई उ । जहविहवं आसि पुरा खीराई पंच धाईओ ॥ ४११ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy