________________
पिण्डनियुः तेर्मलयगिरीयावृत्तिः ॥१२०॥
उत्पादनाया निक्षेपाः
आसूयमाइएहिं वालचियतुरंगबीयमाईहिं । सुयआसदुमाईणं उप्पायणया उ सच्चित्ता ॥ ४०५ ॥ व्याख्या-मुताश्वद्रुमादीनां द्विपदचतुष्पदापदरूपाणाम् , अत्रादिशब्दः प्रत्येकमभिसम्बध्यते, सुतादीनामश्वादीनां द्रुमादीनां च यथासङ्घयमासूयादिभिः, 'आसूयम् ' औपयाचितकम् , आदिशब्दाद्भाटकजलादिपरिग्रहः । तथा 'वालचिततुरङ्गबीजादिभिश्च तत्र वाले:केशरोमादिभेदभिन्नैश्चितो-व्याप्तो वालचितः-पुरुषो 'लोमशः पुरुष' इति वचनात् , तुरङ्गबीजे च सुप्रसिद्ध आदिशब्दादन्यहेतुपरिग्रहः, या उत्पादना, तथाहि-केनचिनिजभार्यायाः कथमपि पुत्रासम्भवे देवताया औपयाचितकेन ऋतुकाले स्वसंप्रयोगेण च सुतः पुत्रिका वोत्पाद्यते, तथा निजघोटिकायाः परस्य भाटकप्रदानेन परघोटकमारोप्य तुरङ्ग उत्पाद्यते, एवं यथायोगं बलीवादिरपि, तथा जलसेकेन बीजारोपणेन द्रुमवल्ल्यादिः, तत इत्थं सुतादीनामुत्पादना सा सचित्तद्रव्योत्पादना। सम्पत्यचित्तद्रव्योत्पादनां मिश्रद्रव्योत्पादनां च प्रतिपादयति
कणगरययाइयाणं जहेहधाउविहिया उ अच्चित्ता । मीसा उ सभंडाणं दुपयाइकया उ उत्पत्ती ॥ ४०६ ॥ व्याख्या-'कनकरजतादीनां ' सुवर्णरूप्यताम्रादीनां ' यथेष्टधातुविहिता । यथेष्टो यो यस्येष्टोऽनुकूलो धातुस्तस्माद्विहिता-कृता उत्पत्तिः सा 'अचित्ता' अचित्तद्रव्योत्पादना, तथा या 'द्विपदादीनां' दासादीनां 'सभाण्डानां' सालङ्कारादीनां वेतनप्रदानेन या कृता आत्मीयत्वेनोत्पत्तिः सा 'मिश्रा' मिश्रद्रव्योत्पादना । तदेवमुक्ता द्रव्योत्पादना, सम्पति भावोत्पादनामाह
भावे पसत्थ इयरो कोहाउप्पायणा उ अपसत्था । कोहाइजुया धायाइणं च नाणाइ उ पसत्था ॥ ४०७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org